संस्कृतसाहित्यस्य रीतिविषये चर्चा एकस्य काव्यस्य दृष्टान्तमाध्यमेन: Difference between revisions

From enIKSwiki
Jump to navigation Jump to search
(Created page with " '''संस्कृतसाहित्यस्य रीतिविषये चर्चा एकस्य काव्यस्य दृष्टान्तमाध्यमेन''' काव्यस्योपादानानां मध्येऽन्यतमा रीतिः। अलंकारशास्त्रे प्राचीनकालाद् रीतिस्वीकारस्य प्रचलनमासीत्।...")
 
mNo edit summary
 
(One intermediate revision by the same user not shown)
Line 367: Line 367:




Authored by .
 
Published by,
Authored by ड. पियूष-कान्ति-पालः
 
Published by,  
[[index.php?title=Category:Philosophy]]

Latest revision as of 10:42, 4 September 2024

संस्कृतसाहित्यस्य रीतिविषये चर्चा एकस्य काव्यस्य दृष्टान्तमाध्यमेन

काव्यस्योपादानानां मध्येऽन्यतमा रीतिः। अलंकारशास्त्रे प्राचीनकालाद् रीतिस्वीकारस्य प्रचलनमासीत्। नाट्यशास्त्रे प्रवृत्तिरूपेणास्या उल्लेखः परिलक्ष्यते। तद्यथा-

         चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोगतः।

         आवन्ती दाक्षिणात्मा च पाञ्चाली चौड्रमागधी॥१इति।

विष्णुधर्मोत्तरपोराणेऽपि उल्लिखिता रीतिर्वृत्तिरूपेण-                

         आवन्ती दाक्षिणात्मा च तथा चैवात्र मागधी।

         पाञ्चाली मध्यमा चेति वृत्तिः सा तु चतुर्विधा॥२

रीतेर्भेदोऽयमासीद् देशगतः। काव्यस्य गुणगतवैशिष्ट्यानामुपरि रीतिस्वीकारः प्रधानरूपेण कृतो वामनाचार्येण। तेन तदीये काव्यालंकारसूत्रवृत्तिग्रन्थे काव्यात्मरूपेण रीति स्वीकृता।

तत्र तेनोक्तम्- ‘रीतिरात्मा काव्यस्य’३ अर्थात् काव्यस्यात्मा भवति रीतिः। काव्यस्य शरीरं भवति वाक्यसमूहः।

इदानीं प्रश्न उच्यते- का नाम रीतिः? अस्योत्तरे पुनर्वामनेनोक्तम्- ‘विशिष्टा पदरचना रीतिः’४। सूत्रेऽस्मिन्नुक्तो विशेषो गुणात्मकः। तथाहि तेनोक्तम्- ‘विशेषो गुणात्मा’५। अतो रीतेर्मूलीभूतो विषयो गुणः।

गुणसम्पर्के विस्तारितालोचनं काव्यादर्शे तथा काव्यालंकारसूत्रवृत्तौ कृतम्।

रीतिभेदप्रसङ्गे दण्डिवामनयोर्मध्ये विभिन्नता परिलक्षिता। दण्दिनोक्तं तदीये काव्यादर्शे-

         श्लेषः प्रसादः समता माधुर्यं सुकुमारता।

         अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः॥

         इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः।

         एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि॥१

अर्थात् श्लेषादिगुणाः सर्वदा वैदर्भमार्गस्य प्राणाः। वैदर्भीरीतेः दश गुणा वर्तन्ते। अपरपक्षे यदि एकाधिकगुणानामभावः परिलक्ष्यते तर्हि गौडरीतिः।

वामनस्य मते रीतिः त्रिविधा- वैदर्भी, गौडीया पञ्चाली च।

वैदर्भी रीतिः- ‘समस्तगुणोपेता वैदर्भी’२। तथाहि वृत्तौ तेनोक्तम्-

         अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता।

         विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते॥३

गौडीया रीतिः- ‘ओजःकान्तिमती गौरीया’४। तथाहि वृत्तौ तेनोक्तम्-

         समस्तात्युद्भटपदामोजः कान्तिगुणान्विताम्।

         गौडीयामिति गायन्ति रीतिं रीतिविचक्षणाः॥५

पाञ्चाली रीतिः- ‘माधुर्यसौकुमार्योपपन्ना पाञ्चाली’६। तथाहि वृत्तौ तनोक्तम्-

         आश्लिष्टश्लथभावां तां पुराणच्छाययाश्रिताम्।

         मधुरां सुकमारां च पाञ्चालीं कवयो विदुः॥७

राजेन्द्रकर्णपूरकाव्यस्य गुणविवेचनाख्याध्याये परिलक्ष्यते यत्- काव्येऽस्मिन् श्लेषादयो दश गुणाः वर्तन्ते।

यतोऽत्र दशानां गुणानामेकत्र सन्निवेशः परिलक्ष्यते। अतः स्पष्टत एव परिलक्ष्यते काव्यस्य रीतिरपि वैदर्भी। वैदर्भी नाम रीतिः काव्यस्य रीतीनां मध्ये श्रेष्ठा। एषा सरस्वत्या विलासभूमिः, पदानां सौभाग्यलाभस्य प्रतिनिधिः, सहृदयाणां कर्णामृतस्यानभ्रवृष्टिश्च वर्तते, कस्यापि सौभाग्यशलिनो महाकवेः रचनायामेव समुदेति इति मन्यते। तथाहि महाकविना बिल्हणेनोक्तम्-

         अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः।

         वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूपदानाम्॥१

राजशेखरस्य मते तु- ‘वाग्वैदर्भी मधुरिमगुणं स्पन्दते श्रोत्रलेह्यम्’२।

छ्न्दोविमर्शः

निरुक्ते तथा ब्राह्मणग्रन्थे छन्दसः विविधाः व्याख्याः प्रदत्ताः। यथा छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः इति ऐतरेयारण्यके उक्तम्। तत्रापि च उक्तम् पुनः- मानवान् पापकर्मेभ्यः छादयन्ति छन्दांसि इति छन्दः अर्थात् यं पापमाच्छादयति, यं वा पापाद् यजमानं पुरोहितञ्चाच्छादयति रक्षयति च तत् छन्दः।

केचिच्च वदन्ति- यदा ऋषिमुखाद् मन्त्रस्य प्रकाशोऽभवत् तदा तैः महर्षिभिः स्पन्दनमेकमनुभूतम्। स्पन्दनमिदं छन्दसो रूपग्रहणं कृतम्।

‘सिद्धान्तकौमुदी’ इति ग्रन्थे छन्दसो व्युत्पत्तौ उच्यते- ‘चन्दयति आह्लादयति इति छन्दः अर्थाद् आह्लादितं करोति एतस्माद् छन्दः। अत्र ‘चन्देरादेश्च छः’ इति सूत्रेण च-स्थाने छः।

अतः उपर्युक्तेभ्यो यद् ज्ञायते, तज्ज्ञानादुच्यते- काव्ये छन्दः काव्यस्य सर्वदोषानाच्छादयति, सहृदयाणां हृदि अपूर्वस्पन्दनं सृष्ट्‍वा मनसि तेषामाह्लादं सञ्चारयति। काव्ये प्रयुक्तं छन्दोऽङ्गत्राणस्येवार्थादच्छेद्यावरणवत् पदावलीमाच्छादयति। किन्तु आच्छादकोऽयं मानवस्य देहावरस्येवाविच्छेद्यरूपेण वर्तते। काव्ये छन्दः समवायसम्बन्धेनैव वर्तते सर्वदा। यदि कोऽपि काव्ये छन्दसः परिवर्तनं करोति तर्हि काव्यस्य तस्याङ्गहानिरनिवार्यः। एतत् छन्दः काव्यदेहस्यापरिहार्याङ्गम्। काव्यस्य गुणालंकाररीतीनामिव तत्रसमवायसम्बन्धेनाबद्द्धम्। एतेषामिव छन्दोऽपि रससञ्चारे उपकारकं भवति। भाषान्तरेऽपि उच्यते रसस्याकर्षणेनैव काव्ये छन्दसः सृष्टिर्भवति।

संस्कृतसाहित्ये चतुर्भिः चरणैर्युक्ता पदावली भवति पद्यम्। तथाहि उक्तं गङ्गादासेन छन्दोमञ्जरीग्रन्थे-

             पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा।

             वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत्॥१

पद्यमिदं तथा छन्दः पुनः द्‍विविधम्- १ वृत्तपद्यम् वा वृत्तछन्दः

       २ जातिपद्यम् वा जातिउछन्दः

पद्यं यदा अक्षरसंख्यागणनाद्वारा निरुपितं भवति तदा भवति वृत्तम्। परन्तु यदा मात्रागणनाद्वारा छन्दो निरुपितं भवति तदा भवति जातिछन्दः।

उल्लिखितं वृत्तछन्दोऽपि पुनः त्रिविधम्। तथाहि उक्तं गङ्गादासेन-

         ‘सममर्द्धसमं वृत्तं विषमञ्चेति तत् त्रिधा।’१

१ समवृत्तम्

२ अर्धसमवृत्तम्

३ विषमवृत्तम्

यस्मिन् पद्ये चरणचतुष्टयमेव समलक्षणाक्रान्तमएथात् सर्वेषु चरणेषु समसंख्यकानि अक्षराणि विद्यन्ते, गणोऽपि तत्राभिन्नः, तत् समवृत्तम् । तथाहि उक्तं गङ्गादासेन-

                ‘समं समचतुष्पादं भवत्यर्द्धसमं पुनः।’२

यस्मिन् पद्ये प्रथमचरणं तृतीयचरणेन सह समलक्षणाक्रान्तं भवति, अपि च द्‍वितीयचरणं चतुर्थचरणेन सह समलक्षणाक्रान्तं भवति, तदर्धसमवृत्तं छन्दः। तथाहि उक्तं गङ्गादासेन-

                ‘आदिस्तृतीयवद् यस्य पादस्तुर्यो द्‍वितीयवत्’।३

यस्मिन् पद्ये तु चत्वरि चरणान्यैव भिन्नभिन्नलक्षणाक्रान्तानि, तद् विषमवृत्तछन्दः। तथाहि उक्तं गङ्गादासेन-

                ‘भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम्’।४             

वृत्तछन्दसो निरुपणार्थं सर्वाग्रे अक्षर-लघु-गुरु-गण-यत्यादीनां ज्ञानमत्यावश्यकम्। स्वरवर्णः, स्वरयुक्तव्यञ्जनवर्णश्च भवति अक्षरम्। अतोऽत्र ज्ञायते स्वरवियुक्तो विशुद्धव्यञ्जनवर्णो न कदापि अक्षरं, विशुद्धस्वरवर्णस्तु अर्थाद् व्यञ्जनवर्णरहितः स्वरवर्णः सर्वदाक्षरम्।

अक्षरमिदं लघुगुरुभेदेन द्‍विविधम्। स्वभावतः ह्रस्वस्वरयुक्तो व्यञ्जनवर्णस्तथा शुद्धह्रस्वस्वरो भवति लघुः। अपरपक्षे दीर्घस्वरयुक्तो व्यञ्जनवर्णस्तथा शुद्धदीर्घस्वरो भवति गुरुः। एषस्तु सामान्यनियमः। अपि चास्ति अत्र विशेषो नियमः। विशेषो नियमो भवति – अनुस्वारयुक्तवर्णो विसर्गयुक्तवर्णः, संयुक्तव्यञ्जनात् प्रागवस्थितमक्षरं भवेत् गुरुः। चरणान्तेऽवस्थितं लघ्वक्षरं विकल्पेन लघुर्भवेत् प्रयोजनवशात्। तथाहि उक्तं गङ्गादासेन-

             सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत्।

                 वर्णःसंयोगपूर्वश्च तथा पादान्तगोऽपि वा॥१

चरणेषु संघातरूपेण अवस्थितेन अक्षरत्रयेण गठितो भवति गणः। एतादृशो गणः संस्कृतछन्दःशास्त्रे अष्टविधः। अक्षरत्रयं यदा गुरु भवति तदा म-गणः, यदा च लघुः भवति तदा न-गणः। भ-गणे प्रथमाक्षरं गुरुः केवलम्; य-गणे प्रथमाक्षरं लघुः केवलम्, अपरमक्षरद्‍वयमत्र गुरुः। ज-गणे केवलं मध्यस्थाक्षरं गुरुः, अवशिष्टाक्षरद्‍वयं लघुः। र-गणे मध्यस्थिताक्षरं लघुः, अवशिष्टाक्षरद्‍वयं भवति गुरुः। स-गणे अन्तिमक्षरं गुरुः, अपराक्षरद्‍वयं भवति लघुः। त-गणे अन्तिमाक्षरं भवति लघुः, अपराक्षरद्‍वयं गुरुः। अतः म-न-भ-य-ज-र-स-ताख्याः गणा अष्टविधाः। अपि च परिलक्ष्यते संस्कृतसाहित्ये अतिरिक्तगणद्‍वयम्। एकेनैव गुरुना अक्षरेण गठितो ग-गणः; अपि च, एकेनैव लघ्वक्षरेण गठितः ल-गणः। गणद्‍वयं सर्वदा पदान्ते परिलक्ष्यते। संस्कृतछन्दःशास्त्रे गुरुसंज्ञकाक्षरस्य ज्ञापनार्थं ‘―’ चिह्नमिदं व्यवह्रीयते। अपि च लघ्वक्षरज्ञापनार्थं ‘ ͝ ’ चिह्नमिदं व्यवह्रीयते। तथाहि उक्तं गङ्गादासेन-

         मस्त्रिगुरुस्त्रिलघुश्च नकारो

भादिगुरुः पुनरादिलघुर्यः।

         जो गुरुमध्यगतो रलमध्यः

सोऽन्तगुरुः कथितोऽन्तलघुस्तः॥

         गुरुरेको गकारस्तु लकारो लघुरेककः। २

पद्ये विद्यते चरणचतुष्टयम्। अस्य चरणस्य पाठकाले जिह्‍वा स्वेच्छया यत्र विश्रामग्रहणं करोति तत्र यतिर्भवति अर्थात् तत्र यतिप्रदानं करणीयम्। तथाहि उक्तं गङ्गादासेन-

         यतिर्जिह्वेष्टविश्रामस्थानं काविभिरुच्यते।

         सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया॥१

अपरपक्षे मात्रागणनाद्‍वारा जातिछन्दः निरुपितं भवेत्।

जातिछन्दसि मात्रा चतुर्धा। तद्यथा- एकमात्रा, द्‍विमात्रा, त्रिमात्रा, अर्धमात्रा चेति। एकमात्रा ह्रस्वस्वरस्य, द्‍विमात्रा दीर्घस्वरस्य, त्रिमात्रा प्लुतस्वरस्य, अर्धमात्रा तु व्यञ्जनस्य भवति। तथाहि उक्तं  गङ्गादासेन छन्दोमञ्जरी इति ग्रन्थस्य टीकायाम्-

         एकमात्रो भवेत् ह्रस्वो द्‍विमात्रो देर्घ उच्यते।

         त्रिमात्रस्तु भवेत् प्लुतो व्यञ्जनञ्चार्द्धामात्रकम्॥२

राजेन्द्रकर्णपूरकाव्ये प्रयुक्तानि छन्दांसि भवन्ति- मन्दक्रान्ता, इद्रवज्रा, सार्दूलविक्रीडितं, पृथ्वी, आर्या चेति। एतेषां मध्ये प्राध्यान्येन प्रयोगः परिलक्ष्यते शार्दूलविक्रीडितमिति छन्दसः। प्रारम्भिकश्लोके तु कविना मन्दाक्रान्ताछन्दसः प्रयोगः कृतः। उदाहरणरूपेणोच्यते-

 

१ मन्दाक्रान्ता

         बद्धस्पर्धः क्षितिधरसुताभ्रूलतबक्रतयां

भूयाद् भूत्यै तव हरशिरः शेखरो रोहिणीशः ।

यं निष्पीड्‍य स्तनमुखनखोल्लेखरेखासु देव्याः

सम्भोगान्ते वितरति सुधास्यन्दमर्धेन्दुमौलिः ॥३इति।


श्लोकेऽस्मिन् अर्थात् श्लोकस्य पादेऽस्मिन्नक्षरसंख्या सप्तदश, गणश्च म-भ-न-त-त-ग-ग इति; अत इदं मन्दाक्रान्ता इति समवृत्तछन्दः। अस्य लक्षणे गङ्गादासेनोक्तम्- ‘मन्दाक्रान्ताम्बुधिरसनगैर्मोभनौ तौ गयुग्मम्’१। लक्षणे प्रयुक्तस्याम्बुधिशब्दस्यार्थश्चत्वारः, रसेन बोध्यते षट्संख्या, नगेन च बोध्यते सप्तसंख्या। अतो मन्दाक्रान्ताछन्दसि प्रथमयतिर्भवेत् चतुर्थाक्षरे, ततः दशमाक्षरे, ततः सप्तदशतमाक्षरे।

२ इन्द्रवज्रा-

अव्यात्स वस्ताण्डवविभ्रमेण

मौलौ विलीना हरिणाङ्कलेखा ।

सा यस्या वामे कुचमण्डलाग्रे

कपूरपत्राङ्कुरटङ्कमेति ॥२इति।


पादस्यास्य अक्षरसंख्या एकादश, गणश्च त-त-ज-ग-ग इति, पादचतुष्टयमेव समाक्षरयुक्तम्। अतोऽत्र इन्द्रवज्राछन्दः प्रयुक्तम्। अस्य लक्षणे गङ्गादारेनोक्तम्- ‘ स्यादिन्द्रवज्रा यदि तौ जगौ गः’३।

शार्दूलविक्रीडितम्-

प्रेमाणं विनिमील्य मल्लिकलिकाकर्णावतंसे रसं

मुक्त्वा मौक्तिककुण्डले कुरुत भोः शम्भोर्गिरः कणयोः ।

युष्माकं रतिकान्तकार्मुकलताक्रेंकारकान्ते रुते

सोत्कण्ठं कलकण्ठकण्ठकुहरोद्भूतेऽपि मा भून्मनः ॥४इति।


पादस्यास्याक्षरसंख्या ऊनविंशतिः, गणश्च म-स-ज-त-त-त-ग इति; अपि च चत्वारः पादाः समाक्षरयुक्ताः। अतोऽत्र शार्दूलविक्रीडितमिति समवृत्तछन्दः प्रयुक्तम्। अस्य लक्षणे छन्दोमञ्जरी इति ग्रन्थे गङ्गादासेनोक्तम्- ‘सूर्याश्वैमसजस्तता सगुरवः शार्दूलविक्रीडितम्’१। लक्षणे प्रयुक्तस्य सूर्यशब्दस्य वाचकसंख्या द्‍वादश, अश्वस्य च सप्त। अतोऽस्मिन् छन्दसि प्रथमे द्‍वादशाक्षरे, ततः सप्तदशाक्षरे यतिर्भवेत्।

पृथ्वी-

           जहाति नगरीं गलत्कनककङ्कणः कौङ्कणो

वनं विशति विह्वलः स्खलितकुन्तलः कौन्तलः ।

किमन्यतुदितक्रुधि त्वयि मृगेन्द्रभीमारवं

तटं विशति मारवं च्युतरमालवो मालवः ॥२१२॥


पादस्यास्यक्षरसंख्या सप्तदश, गणश्च ज-स-ज-स-य-ग-ग इति, अपि च पादचतुष्टयं समाक्षरम्। अतोऽत्र पृथ्वी नाम समवृत्तछन्दः प्रयुक्तम्। अस्य छन्दसः लक्षणे छन्दोमञ्जरी इति ग्रन्थे गङ्गादासेनोक्तम्- ‘जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः’३। लक्षणस्थेन वसुशब्देन अष्ट, ग्रहशब्देन नव इति संख्या बोध्यते। अतः छन्दसि अस्मिन् प्रथमे अष्टमाक्षरे ततः सप्तदशाक्षरे यतिर्भवेत्।

आर्या (जातिछन्दः)


विषमेषु विगलितरसा       =१२ 

श्चपलतरंगालिभिर्जडैः क्षुभिताः ।     =१८

तिमिर चितवसतयस्तव      =१२

         रिपुसदृशो निम्नगाः जाताः॥१        =१५

श्लोकस्यास्य प्रथमचरणे मात्रासंख्या द्‍वादश, द्‍वितीयचरणे अष्टादश, तृतीयचरणे द्वादश, चतुर्थे च पञ्चदश। अतः श्लोकेऽस्मिन् आर्या नाम जातिछन्दः प्रयुक्तम्। आर्या छन्दसः लक्षणे गङ्गादासेनोक्तम्-

         यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि।

         अष्टादश द्‍वितीये चतुर्थके पञ्चदश साऽऽर्या॥२


इयमेव संक्षिप्तः छन्दोविमर्शः राजेन्द्रकर्णपूरकाव्यस्य।

ग्रन्थसूची


१      अशोकनाथशास्त्रिकृतः ‘ रस ओ भाव’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९९८ तमे खिस्ताव्दे प्रकाशितः।

२     आनन्दवर्धनकृतः ‘ध्वन्यालोक(प्रथमोद्योत)’ इत्याख्यः ग्रन्थः सत्यनारायण-चक्रवर्तिसम्पादितः ‘संकृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९९८ तमे खिस्ताव्दे प्रकाशितः।

३     ‘उपनिषद्ग्रथेवली’ इत्याख्यः ग्रन्थः स्वामिगम्भीरानन्दसम्पादितः ‘ उद्वोधन कार्यालय’ इत्याख्यसंस्थानतः  कालिकातायां १९६२ तमे खिस्ताव्दे प्रकाशितः। सप्तमसंस्करणम्।

४     ऋग्वेदः रामगोविन्दत्रिवेदीसम्पादितः ‘चौखाम्वा विद्याभवन’ इत्याख्यसंस्थानतः  वाराणस्यां २०११ तमे खिस्ताव्दे प्रकाशितः। 

५     कलहणकृतः ‘राजतरङ्गिणी ’ इत्याख्यः ग्रन्थः पञ्चानन-तर्करत्नेन सम्पादितः ‘कलिकाता विश्वविद्यालयः ’ इत्याख्यसंस्थानतः कलिकातायां १३१७ तमे खिस्ताव्दे प्रकाशितः।

६     कालिदासकृतः ‘अभिज्ञानशकुन्तलम्’ इत्याख्यः ग्रन्थः सत्यनारायण-चक्रवर्तिमहोदयेन सम्पादितः ‘ संकृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां २०१० तमे खिस्ताव्दे प्रकाशितः। सप्तमसंस्करणम्।

७    ‘काव्यमाला’ इति संकलनग्रन्थः दुर्गाप्रसादमहोदयेन काशीनाथमहोदयेन च सम्पादितः ‘ निर्णय-गागर-प्रेस’ इत्याख्यसंस्थानतः बोम्बाई इति नगरे १९३२ तमे खिस्ताव्दे प्रकाशितः।

८     गङ्गादासकृतः ‘छन्दोमञ्जरी’ इत्याख्यः ग्रन्थः श्रीरामपद-भट्टाचार्येण सम्पादितः ‘संकृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९९४तमे खिस्ताव्दे प्रकाशितः।

९     जगदीशचन्द्रमिश्रकृतः ‘अलंकारशास्त्रस्येतिहासः’ इत्याख्यः ग्रन्थः ‘चौखाम्बा-सुरभारती-प्रकाशन’ इत्याख्यसंस्थानतः वाराणस्यां २००९ तमे खिस्ताव्दे प्रकाशितः।

१०  जयश्री-चट्टोपाध्यायकृतः ‘ अलंकारशास्त्रेर समृद्ध इतिहास’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां २००६तमे खिस्ताव्दे प्रकाशितः।

११   दण्डिकृतः ‘काव्यादर्शः ’ इत्याख्यः ग्रन्थः अनिल-वसुना सम्पादितः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां २००२ तमे खिस्ताव्दे प्रकाशितः। 

१२  द्‍विजेन्द्रनाथशास्त्रिकृतः ‘संस्कृतसाहित्यविमर्शः’ इत्याख्यः ग्रन्थः ‘भारतीप्रतिष्ठान’ इत्याख्यसंस्थानतः महाराष्ट्रनगरे १९५६ तमे खिस्ताव्दे प्रकाशितः।

१३  धीरेन्द्रनाथबन्धोपाध्यायकृतः ‘संस्कृतसाहित्येर इतिहास’ इत्याख्यः ग्रन्थः ‘पश्चिमवङ्ग राज्य पुस्तक पर्षद्’ इत्याख्यसंस्थानतः कलिकातायां २००० तमे खिस्ताव्दे प्रकाशितः। द्‍वितीयसंस्करणम्।

१४  धीरेन्द्रनाथबन्धोपाध्यायकृतः ‘संस्कृत अलंकारशास्त्र तत्त्व ओ समीक्षा’ इत्याख्यः ग्रन्थः ‘पश्चिमवङ्ग राज्य पुस्तक पर्षद्’ इत्याख्यसंस्थानतः कलिकातायां २०१२ तमे खिस्ताव्दे प्रकाशितः।

१५   भरतमुनिकृतः ‘ नाट्यशास्त्रम्’ इत्याख्यः ग्रन्थः पुष्पेन्द्र-कुमारमहोदयेन सम्पादितः ‘निउ-भारतीय-वुक्-कर्परेशन्’ इत्याख्यसंस्थानतः दिल्ली इति नगर्यां २०१०तमे खिस्ताव्दे प्रकाशितः।

१६  भामहकृतः ‘काव्यालंकारः’ इत्याख्यः ग्रन्थः वटुनाथ-शर्मणा बलदेव-उपाध्यायेन च सम्पादितः ‘चौखम्बा विद्याभवन’ इत्याख्यसंस्थानतः  वाराणस्यां १९८५ तमे खिस्ताव्दे प्रकाशितः।

१७  भोजकृतः ‘ सरस्वतीकण्ठाभरणम्’ इत्याख्यः ग्रन्थः केदारनाथेन दुर्गाप्रसादेन च सम्पादितः ‘ निर्णय-सागर-प्रेस’ इत्याख्यसंस्थानतः मुम्बाई इति स्थाने १८९४ तमे खिस्ताव्दे प्रकाशितः।

१८  मम्मटाचार्यकृतः ‘काव्यप्रकाशः’ इत्याख्यः ग्रन्थः रामसागर-त्रिपाठीमहोदयेन सम्पादितः ‘मोतीलाल-बनारसीदासः’ इत्याख्यसंस्थानतः वाराणस्यां १६८३ तमे खिस्ताव्दे प्रकाशितः।

१९  मम्मटाचार्यकृतः ‘काव्यप्रकाश(नवम ओ दशम)’ इत्याख्यः ग्रन्थः विजया-गोस्वामिसम्पादितः ‘सदेश’ इत्याख्यसंस्थानतः कलिकातायां २००६ तमे खिस्ताव्दे प्रकाशितः।

२०  मंखकृतः ‘ शीकण्ठचरितम्’ इत्याख्यः ग्रन्थः ‘काव्यमाला’ इति संकलने अन्तर्भूक्तः दुर्गाप्रसादमहोदयेन काशीनाथमहोदयेन च सम्पादितः ‘निर्णय-सागर-प्रेस’ इत्याख्यसंस्थानतः मुम्बाई इति नगरे १९३२ तमे खिस्ताव्दे प्रकाशितः।


२१  महाकविशम्भुकृतः ‘राजेन्द्रकर्णपूरः’ इत्याख्यः ग्रन्थः ड. देवकुमारीसम्पादितः ‘भारतीय-विद्या-प्रकाशन’ इत्याख्यसंस्थानतः वाराणस्यां १९७३ तमे खिस्ताव्दे प्रकाशितः।

२२  रमारञ्जन-मुख्योपाध्यायकृतः ‘रससमीक्षा’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९६१तमे खिस्ताव्दे प्रकाशितः।


२३  वामनकृतः ‘काव्यालंकारसूत्रवृत्तिः’ इत्याख्यः ग्रन्थः अनिल-चन्द्र-वसुना सम्पादितः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९७७ तमे खिस्ताव्दे प्रकाशितः।

२४  विद्यानाथकृतः ‘प्रतापरुद्रीयम् ’ इत्याख्यः ग्रन्थः के. पि. त्रिवेदी महोदयेन सम्पादितः बोम्बाई इत्याख्यस्थानतः १९०९ तमे खिस्ताव्दे प्रकाशितः।

२५ विष्णुपद-भट्टाचार्यकृतः ‘प्राचीनभारतीय अलंकारशास्त्रेर भूमिका’ इत्याख्यः ग्रन्थः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९५३ तमे खिस्ताव्दे प्रकाशितः।

२६ विष्णुपद-भट्टाचार्यकृतः ‘काव्यमीमांसा’ इत्याख्यः ग्रन्थः  ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९८२ तमे खिस्ताव्दे प्रकाशितः।

२७ विष्णुपद-भट्टाचार्यकृतः ‘साहित्यमीमांसा’ इत्याख्यः ग्रन्थः ‘विश्वभारती-ग्रन्थन-विभाग’ इत्याख्यसंस्थानतः कलिकातायां १९८२ तमे खिस्ताव्दे प्रकाशितः।

२८  विश्वनाथकृतः ‘साहित्यदर्पणः’ इत्याख्यः ग्रन्थः ड. सत्यव्रतसिंहेन सम्पादितः ‘चौखम्वा विद्याभवन’ इत्याख्यसंस्थानतः वाराणस्यां १९५८ तमे खिस्ताव्दे प्रकाशितः।

२९  विलहणकृतः ‘विक्रमाङ्कदेवचरितम’ इत्याख्यः ग्रन्थः जि. बुलारमहोदयेन सम्पादितः ‘ वि.एस. एस.’ इत्याख्यसंस्थानतः बोम्बाई इति नगर्यां १८७५तमे खिस्ताव्दे प्रकाशितः।

३०  ‘विष्णुधर्मोत्तरपुराणम्’इति ग्रन्थः प्रियबाला-साहा इत्येन सम्पादितः ‘इ. मर्लवोरुख ’ इत्याख्यसंस्थानतः  लण्डन इति स्थाने २००३ तमे खिस्ताव्दे प्रकाशितः।

३१  श्यामापद-चक्रवर्तिकृतः ‘अलंकारचन्द्रिका’ इत्याख्यः ग्रन्थः सम्पादितः ‘वामा पुस्तकालय’ इत्याख्यसंस्थानतः कलिकातायां २००६तमे खिस्ताव्दे प्रकाशितः।

३२  हेमचन्द्रकृतः ‘काव्यानुशासनम् ’ इत्याख्यः ग्रन्थः रसिकलाल-सि.-पारिख-सम्पादितः ‘मुम्बाई ’ इत्याख्यसंस्थानतः  १९३८ तमे खिस्ताव्दे प्रकाशितः।                                  



लेखकः - ड: पियूष-कान्ति-पालः


१ नाट्यशास्त्रम्। अध्यायः-१४। कारिकासंख्या-३६। पृष्ठासंख्या- ६७८।

२ विष्णुधर्मोत्तरपुराणम्। खण्डः-३। परिच्छेदः-२०। श्लोकसंख्या-५९। पृष्ठासंख्या-२३१।

३ काव्यालंकारसूत्रवृत्तिः। अधिकरणम्-१। अध्यायः-२। सूत्रम्-६। पृष्ठासंख्या-३५।

४ तत्रैव। अधिकरणम्-१। अध्यायः-२। सूत्रम्-७। पृष्ठासंख्या-३८।

५ तत्रैव। अधिकरणम्-१। अध्यायः-२। सूत्रम्-८। पृष्ठासंख्या-३९।

१ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-४३-४४। पृष्ठासंख्या-१२९-१३०।

२ काव्यालंकारसूत्रवृत्तिः। अधिकरणम्-१। अध्यायः-२। सूत्रम्-११। पृष्ठासंख्या- ४८।

३ तत्रैव

४ काव्यालंकारसूत्रवृत्तिः। अधिकरणम्-१। अध्यायः-२। सूत्रम्-१२। पृष्ठासंख्या-५३।

५ तत्रैव।

६ तत्रैव। अधिकरणम्-१। अध्यायः-२। सूत्रम्-१३। पृष्ठासंख्या-५६।

७ तत्रैव।

१ विक्रमाङ्कदेवचरित्। सर्गः-१। श्लोकसंख्या-९। पृष्ठासंख्य़ा-३४।

२ बालरामायनम्। सर्गः-३। श्लोकसंख्या-१४।

१ छन्दोमञ्जरी। स्तवकसंख्या-४। पृष्ठासंख्या-३।

१ छन्दोमञ्जरी। स्तवकसंख्या-५। पृष्ठासंख्या-४।


२ तत्रैव।


३ तत्रैव। स्तवकसंख्या-६। पृष्ठासंख्या-४।

४ तत्रैव।

१ छन्दोमञ्जरी। स्तवकसंख्या-११। पृष्ठासंख्या-९।


२ तत्रैव। स्तवकसंख्या-८। पृष्ठासंख्या-५।


१ छन्दोमञ्जरी। स्तवकसंख्या-१९। पृष्ठासंख्या-१४।


२ तत्रैव।

३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१। पृष्ठासंख्या-१७।

१ छन्दोमञ्जरी। स्तवकसंख्या-२। पृष्ठासंख्या-१२४।

२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-२। पृष्ठासंख्या-१८।

३ छन्दोमञ्जरी। स्तवकसंख्या-२। पृष्ठासंख्या-४५।


४ राजेन्द्रकर्णपूरः। श्लोकसंख्या-३। पृष्ठासंख्या-१९।

१ छन्दोमञ्जरी। स्तवकसंख्या-२। पृष्ठासंख्या-१४६।


२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१२। पृष्ठासंख्या-२६।

३ छन्दोमञ्जरी। स्तवकसंख्या-२। पृष्ठासंख्या-१२२।


१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१५। पृष्ठासंख्या-२९।

२ छन्दोमञ्जरी। स्तवकसंख्या-६। पृष्ठासंख्या-२०१।


Authored by ड. पियूष-कान्ति-पालः

Published by, index.php?title=Category:Philosophy