Enwiki:About: Difference between revisions
(वास्तुविद्या इति भारतवर्षस्य वेदाङ्गज्योतिषे अन्तर्भूता विद्यमाना प्राचीना विद्या। विश्वकर्मप्रभृतिभिः अष्टादश वास्तुविद्याप्रणेताः प्रसिद्धाः सन्ति। यथा मत्स्यपुराणे उल्लिखितम् - भृगुरत्रिर्वशिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ।। ब्रह्माकुमारो नन्दीशः शौनको गर्ग एव च।वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ।। अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः।सङ्क्षेपेणोपदिष्टन्तु मनवे मत्स्यरूपिणा ।। (मत्स्यपुराणम् २५२/ २-४) एतेषु वास्तुविद्याप्रणेतृषु अन्यतमस्य गर्गऋषे) |
mNo edit summary |
||
| Line 9: | Line 9: | ||
== किं नाम वास्तु, | == किं नाम वास्तु, वस्तूनाम् उत्पत्तिः कथम्?== | ||
वास्तु शब्दस्य अर्थः वस्तु वसति वा इति भावे परिगण्यते। अस्मिन् ग्रन्थे वस्तुशब्दस्य प्रयोगः भिन्नार्थे अस्ति। अत्र वस्तु नाम यज्ञोपयोगी पदार्थः। | वास्तु शब्दस्य अर्थः वस्तु वसति वा इति भावे परिगण्यते। अस्मिन् ग्रन्थे वस्तुशब्दस्य प्रयोगः भिन्नार्थे अस्ति। अत्र वस्तु नाम यज्ञोपयोगी पदार्थः। | ||
एकार्णवे पुरालोके प्रनष्टग्रहभास्करे॥ जघान तौ महादैत्यौ हरिर्नारायणः प्रभुः॥३५॥ | एकार्णवे पुरालोके प्रनष्टग्रहभास्करे॥ जघान तौ महादैत्यौ हरिर्नारायणः प्रभुः॥३५॥ | ||
Revision as of 15:48, 10 October 2023
वृद्धगार्गीयवास्तुविद्या
वास्तुविद्या इति भारतवर्षस्य वेदाङ्गज्योतिषे अन्तर्भूय विद्यमाना प्राचीना विद्या। अस्माकं भारतवर्षे विश्वकर्मप्रभृतयः अष्टादश वास्तुविद्याप्रणेतारः प्रसिद्धाः सन्ति। यथा मत्स्यपुराणे उल्लिखितम् - भृगुरत्रिर्वशिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ।। ब्रह्माकुमारो नन्दीशः शौनको गर्ग एव च।वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ।। अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः।सङ्क्षेपेणोपदिष्टन्तु मनवे मत्स्यरूपिणा ।। (मत्स्यपुराणम् २५२/ २-४)
एतेषु वास्तुविद्याप्रणेतृषु अन्यतमस्य गर्गऋषेः वास्तुविद्याग्रन्थः वृद्धगार्गीयवास्तुविद्याख्यः अत्र प्रस्तूयते।
किं नाम वास्तु, वस्तूनाम् उत्पत्तिः कथम्?
वास्तु शब्दस्य अर्थः वस्तु वसति वा इति भावे परिगण्यते। अस्मिन् ग्रन्थे वस्तुशब्दस्य प्रयोगः भिन्नार्थे अस्ति। अत्र वस्तु नाम यज्ञोपयोगी पदार्थः। एकार्णवे पुरालोके प्रनष्टग्रहभास्करे॥ जघान तौ महादैत्यौ हरिर्नारायणः प्रभुः॥३५॥ तयोस्तन्मेदसाच्छन्नं सर्वमम्भः समन्ततः॥ येन नाम्ना वसुमती मेदिनीत्युच्यते बुधैः॥३६॥ ततः स भगवान् देवो महात्मा परमव्ययः॥प्रजासर्गार्थ संसृज्य लोकत्रयमरिन्दमः॥३७॥ सृष्ट्वा लोकत्रयं पुण्यं वेदाँश्चैव सनातनान्॥यज्ञानुत्पादयामास विविधान् स्वर्गसंक्रमान्॥३८॥ ततो यज्ञप्रसूत्यर्थमसृज वस्तु निश्चयम्॥लोकानां ……..लोके स्वयम्भुवि॥ ३९॥ विस्तरस्य प्रसूति द्विविधा विज्ञेया वास्तुकर्मणि॥ससोमाचाप्यसौमान तृतीयानोपपद्यते॥४०॥ ( वृद्धगर्गवास्तुविद्या प्रथमोऽध्यायः)
कः वृद्धगर्गः?
गर्गस्य उल्लेखः बहुषु ग्रन्थेषु प्राप्यते। ऋग्वेदे गर्गः मन्त्रद्रष्टा। गर्गसंहितायाः प्रणेता गर्गः। श्रीकृष्णस्य पितुः नन्दगोपालस्य आचार्यः गर्गाचार्यः इत्यपि गर्गः प्रसिदः। पुनश्च महाभारते वृद्धगर्गः कश्चन ज्योतिषशास्त्रज्ञः इति अपि उल्लिखितो वर्तते। वराहमीरा, भट्टोत्पलः, नीलकण्ठः आदयः स्वीयग्रन्थेषु वृद्धगर्गस्य गर्गस्य वा उल्लेखं ज्योतिषशास्त्रप्रणेतृरूपेण ददुः। गार्गियवास्तुविद्या तत्र केषुचन श्लोकेषु एव वर्तते। तत्र गर्गः वृद्धगर्गः च नामद्वयं दरीदृश्यते। अतः अस्मिन् निबन्धस्य गर्गः कः इति स्पष्टतया चेतुं न शक्यते। गार्गीयपरम्परायाः वृद्धगर्गः कश्चन वास्तुविद्याप्रणेता इति परिगणनाय क्लेशः न स्यात्। सः एव मत्स्यपुराणे उल्लिखितेषु अष्टादशवास्तुप्रणेतृषु गर्गः वा तस्य परम्परागतः गर्गः स्यात्।
वृद्धगर्गवास्तुविद्यायाः स्रोतः
नेपाल-राष्ट्रीय-अभिलेखात् (Nepal Archives Library, Kathmandu) प्राप्तं मातृकाद्वयं वृद्धगर्गवास्तुविद्यां प्रकटीकरोति। संस्कृतभाषायां देवनागरीलिपौ वृद्धगर्गसंहिता इति नाम्नि No. S-1099 (Reel A 428/27) मातृका, भूजिमोललिपौ, संस्कृतभाषायाः मातृका - (Reel No.1075/3) वास्तुशास्त्रमिति शीर्षिकया वर्तते।