Enwiki:About: Difference between revisions
mNo edit summary |
No edit summary |
||
| Line 27: | Line 27: | ||
== वृद्धगर्गवास्तुविद्यायाः देशकालनिर्णयः== | == वृद्धगर्गवास्तुविद्यायाः देशकालनिर्णयः== | ||
अस्मिन् ग्रन्थे लेखकस्य नाम, कृतेः देशः कालः च स्पष्टतया न निर्देशिताः। निबन्धस्य आरम्भे यः श्लोकः वर्तते, सः अयं ग्रन्थः भारतस्य उत्तरीयप्रदेशस्य अस्ति इति सूचयति - | |||
रम्ये हिमवतः पार्श्वे सिद्धचारणसेविते॥पुरासीदाश्रमस्थानं नदीभागीरथीतटे॥१॥ | |||
पुनश्च यद्यपि सादसूत्राध्याये मगधः, कौशला, अवन्तिः इत्यादिनि नामानि यानि वर्तन्ते तानि नामानि केवलं प्रासादस्य प्रकारं विवृण्वन्ति। अयं बृहद् अध्यायः ग्रन्थस्य प्रारम्भिक-अध्यायेभ्यः भिन्नः दृश्यते। प्रारम्भिक-अध्यायेषु ईदृशानि विवरणानि न लभन्ते। सरलव्यवस्थाः केवलं तत्र सन्ति। अतः अयं ग्रन्थः भारतवर्षस्य गङ्गातीरस्य प्रदेशस्य इति ऊहनीयम्। | |||
तथैव कालस्य निर्णये अपि साक्षात् वाक्यानि न सन्ति। सामन्यतया शुभाशुभकालनिर्णये पञ्चाङ्गे यत् नक्षत्रं, तिथिझ, करणः, मुहूर्तः, वारः चेत्यस्य प्रयोगः ४०० तम-वर्षात् आारभत। किन्तु अस्मिन् ग्रन्थे करणः, वारः च न वर्तेते। अतः अयं ग्रन्थः कौटिल्यस्य अर्थशास्त्रं, भरतनाट्यशास्त्रम् इत्यादिकाः समकालिकाः स्युः इति अनुमानम्। दिग्दर्शने (चतुर्थाध्याये) प्रयुज्यमानाः दिक्निर्णयस्य विषयः वैदिकशुल्बसूत्रेभ्यः प्रभावितः इति स्पष्टतया ज्ञायते। अतः अयं विषयः ५०० ई.पू तमस्य इति वक्तुं शक्यते। | |||
स्मरणीय अयं कालः ग्रन्थे प्रतिपादिताय विषयाय अस्ति न तु मातृकायै। मातृका तु नविना स्यात्। भुजिमोल लिपि १७०० शताब्दिः पर्यन्तं प्रचलिता आसीत् इति इतिहासकारस्य मतम्। | |||
== वृद्धगर्गवास्तुविद्यायाः विषयसूचिः(पुष्पिकाः)== | |||
प्रश्नाध्याये प्रथमोऽध्यायः | |||
वास्तुविद्यायां भूमिपरीक्षा द्वितीयोऽध्यायः | |||
दिग्ग्रहणं तृतीयः | |||
नगरसंनिवेशे चतुर्थः | |||
राजकुलनिवेशः पञ्चमोऽध्यायः | |||
देवताविभागः षष्ठः | |||
द्वारदेवतः सप्तमः | |||
द्वारदैवतको नाम अष्टमः | |||
द्वारगुणदोषोनाम नवमः | |||
द्वारदोषो नाम दशमः | |||
मापने नैमित्तिको नामैकादशमः | |||
वास्तुशान्तिक द्वादशमः | |||
गृहप्रवेशकर्मनाम त्रयोदशमः | |||
नवकर्मिको नाम चतुदर्शमः | |||
वास्तुवैकृतिको नाम पञ्चदशमः | |||
वास्तुमध्ये निर्देशो नाम षोडशोऽध्यायः | |||
कूपभ्रमस्थानसप्तदशमः | |||
ब्रह्मस्थापितो नाम अष्टादशमः | |||
वस्तुच्छेदिको नाम एकोनविंशतिमः | |||
ब्रह्मस्थापितो नामो विंशतिमः | |||
शालानिर्माणको नाम एकविंशतिमः | |||
स्वानिवेशोनामद्वाविंशतिमः | |||
द्वारछेदो नाम त्रयोविंशतिमः | |||
छायालक्षणं नाम चतुर्विंशतोमः | |||
नवगृहविकर्म पञ्चविंशतिमः | |||
उच्छ्रयनिकोनाम षड्विंशतिम अध्यायः | |||
सर्ववर्णानां सप्तविंशतिम | |||
प्रासादविभागो नाम अष्टाविंशोऽध्यायः | |||
प्रासादसूत्र ऊनत्रिंशतिमोऽध्यायः | |||
नक्षत्रयोगं नाम त्रिंशतिमः | |||
बलिकर्मनाम एकत्रिंशतिम अध्यायः | |||
बलिकर्मिको नाम द्वात्रिंशतिमोऽध्यायः | |||
प्रतोलीसूत्र-त्रयस्त्रिंशतिमोऽध्यायः | |||
द्वारनिर्देशको नाम चतुर्त्रिंशतिमः | |||
Revision as of 20:44, 10 October 2023
वृद्धगार्गीयवास्तुविद्या
वास्तुविद्या इति भारतवर्षस्य वेदाङ्गज्योतिषे अन्तर्भूय विद्यमाना प्राचीना विद्या। अस्माकं भारतवर्षे विश्वकर्मप्रभृतयः अष्टादश वास्तुविद्याप्रणेतारः प्रसिद्धाः सन्ति। यथा मत्स्यपुराणे उल्लिखितम् - भृगुरत्रिर्वशिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ।। ब्रह्माकुमारो नन्दीशः शौनको गर्ग एव च।वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ।। अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः।सङ्क्षेपेणोपदिष्टन्तु मनवे मत्स्यरूपिणा ।। (मत्स्यपुराणम् २५२/ २-४)
एतेषु वास्तुविद्याप्रणेतृषु अन्यतमस्य गर्गऋषेः वास्तुविद्याग्रन्थः वृद्धगार्गीयवास्तुविद्याख्यः अत्र प्रस्तूयते।
किं नाम वास्तु, वस्तूनाम् उत्पत्तिः कथम्?
वास्तु शब्दस्य अर्थः वस्तु वसति वा इति भावे परिगण्यते। अस्मिन् ग्रन्थे वस्तुशब्दस्य प्रयोगः भिन्नार्थे अस्ति। अत्र वस्तु नाम यज्ञोपयोगी पदार्थः। एकार्णवे पुरालोके प्रनष्टग्रहभास्करे॥ जघान तौ महादैत्यौ हरिर्नारायणः प्रभुः॥३५॥ तयोस्तन्मेदसाच्छन्नं सर्वमम्भः समन्ततः॥ येन नाम्ना वसुमती मेदिनीत्युच्यते बुधैः॥३६॥ ततः स भगवान् देवो महात्मा परमव्ययः॥प्रजासर्गार्थ संसृज्य लोकत्रयमरिन्दमः॥३७॥ सृष्ट्वा लोकत्रयं पुण्यं वेदाँश्चैव सनातनान्॥यज्ञानुत्पादयामास विविधान् स्वर्गसंक्रमान्॥३८॥ ततो यज्ञप्रसूत्यर्थमसृज वस्तु निश्चयम्॥लोकानां ……..लोके स्वयम्भुवि॥ ३९॥ विस्तरस्य प्रसूति द्विविधा विज्ञेया वास्तुकर्मणि॥ससोमाचाप्यसौमान तृतीयानोपपद्यते॥४०॥ ( वृद्धगर्गवास्तुविद्या प्रथमोऽध्यायः)
कः वृद्धगर्गः?
गर्गस्य उल्लेखः बहुषु ग्रन्थेषु प्राप्यते। ऋग्वेदे गर्गः मन्त्रद्रष्टा। गर्गसंहितायाः प्रणेता गर्गः। श्रीकृष्णस्य पितुः नन्दगोपालस्य आचार्यः गर्गाचार्यः इत्यपि गर्गः प्रसिदः। पुनश्च महाभारते वृद्धगर्गः कश्चन ज्योतिषशास्त्रज्ञः इति अपि उल्लिखितो वर्तते। वराहमीरा, भट्टोत्पलः, नीलकण्ठः आदयः स्वीयग्रन्थेषु वृद्धगर्गस्य गर्गस्य वा उल्लेखं ज्योतिषशास्त्रप्रणेतृरूपेण ददुः। गार्गियवास्तुविद्या तत्र केषुचन श्लोकेषु एव वर्तते। तत्र गर्गः वृद्धगर्गः च नामद्वयं दरीदृश्यते। अतः अस्मिन् निबन्धस्य गर्गः कः इति स्पष्टतया चेतुं न शक्यते। गार्गीयपरम्परायाः वृद्धगर्गः कश्चन वास्तुविद्याप्रणेता इति परिगणनाय क्लेशः न स्यात्। सः एव मत्स्यपुराणे उल्लिखितेषु अष्टादशवास्तुप्रणेतृषु गर्गः वा तस्य परम्परागतः गर्गः स्यात्।
वृद्धगर्गवास्तुविद्यायाः स्रोतः
नेपाल-राष्ट्रीय-अभिलेखात् (Nepal Archives Library, Kathmandu) प्राप्तं मातृकाद्वयं वृद्धगर्गवास्तुविद्यां प्रकटीकरोति। संस्कृतभाषायां देवनागरीलिपौ वृद्धगर्गसंहिता इति नाम्नि No. S-1099 (Reel A 428/27) मातृका, भूजिमोललिपौ, संस्कृतभाषायाः मातृका - (Reel No.1075/3) वास्तुशास्त्रमिति शीर्षिकया वर्तते।
वृद्धगर्गवास्तुविद्यायाः देशकालनिर्णयः
अस्मिन् ग्रन्थे लेखकस्य नाम, कृतेः देशः कालः च स्पष्टतया न निर्देशिताः। निबन्धस्य आरम्भे यः श्लोकः वर्तते, सः अयं ग्रन्थः भारतस्य उत्तरीयप्रदेशस्य अस्ति इति सूचयति - रम्ये हिमवतः पार्श्वे सिद्धचारणसेविते॥पुरासीदाश्रमस्थानं नदीभागीरथीतटे॥१॥ पुनश्च यद्यपि सादसूत्राध्याये मगधः, कौशला, अवन्तिः इत्यादिनि नामानि यानि वर्तन्ते तानि नामानि केवलं प्रासादस्य प्रकारं विवृण्वन्ति। अयं बृहद् अध्यायः ग्रन्थस्य प्रारम्भिक-अध्यायेभ्यः भिन्नः दृश्यते। प्रारम्भिक-अध्यायेषु ईदृशानि विवरणानि न लभन्ते। सरलव्यवस्थाः केवलं तत्र सन्ति। अतः अयं ग्रन्थः भारतवर्षस्य गङ्गातीरस्य प्रदेशस्य इति ऊहनीयम्। तथैव कालस्य निर्णये अपि साक्षात् वाक्यानि न सन्ति। सामन्यतया शुभाशुभकालनिर्णये पञ्चाङ्गे यत् नक्षत्रं, तिथिझ, करणः, मुहूर्तः, वारः चेत्यस्य प्रयोगः ४०० तम-वर्षात् आारभत। किन्तु अस्मिन् ग्रन्थे करणः, वारः च न वर्तेते। अतः अयं ग्रन्थः कौटिल्यस्य अर्थशास्त्रं, भरतनाट्यशास्त्रम् इत्यादिकाः समकालिकाः स्युः इति अनुमानम्। दिग्दर्शने (चतुर्थाध्याये) प्रयुज्यमानाः दिक्निर्णयस्य विषयः वैदिकशुल्बसूत्रेभ्यः प्रभावितः इति स्पष्टतया ज्ञायते। अतः अयं विषयः ५०० ई.पू तमस्य इति वक्तुं शक्यते। स्मरणीय अयं कालः ग्रन्थे प्रतिपादिताय विषयाय अस्ति न तु मातृकायै। मातृका तु नविना स्यात्। भुजिमोल लिपि १७०० शताब्दिः पर्यन्तं प्रचलिता आसीत् इति इतिहासकारस्य मतम्।
वृद्धगर्गवास्तुविद्यायाः विषयसूचिः(पुष्पिकाः)
प्रश्नाध्याये प्रथमोऽध्यायः वास्तुविद्यायां भूमिपरीक्षा द्वितीयोऽध्यायः दिग्ग्रहणं तृतीयः नगरसंनिवेशे चतुर्थः राजकुलनिवेशः पञ्चमोऽध्यायः देवताविभागः षष्ठः द्वारदेवतः सप्तमः द्वारदैवतको नाम अष्टमः द्वारगुणदोषोनाम नवमः द्वारदोषो नाम दशमः मापने नैमित्तिको नामैकादशमः वास्तुशान्तिक द्वादशमः गृहप्रवेशकर्मनाम त्रयोदशमः नवकर्मिको नाम चतुदर्शमः वास्तुवैकृतिको नाम पञ्चदशमः वास्तुमध्ये निर्देशो नाम षोडशोऽध्यायः कूपभ्रमस्थानसप्तदशमः ब्रह्मस्थापितो नाम अष्टादशमः वस्तुच्छेदिको नाम एकोनविंशतिमः ब्रह्मस्थापितो नामो विंशतिमः शालानिर्माणको नाम एकविंशतिमः स्वानिवेशोनामद्वाविंशतिमः द्वारछेदो नाम त्रयोविंशतिमः छायालक्षणं नाम चतुर्विंशतोमः नवगृहविकर्म पञ्चविंशतिमः उच्छ्रयनिकोनाम षड्विंशतिम अध्यायः सर्ववर्णानां सप्तविंशतिम प्रासादविभागो नाम अष्टाविंशोऽध्यायः प्रासादसूत्र ऊनत्रिंशतिमोऽध्यायः नक्षत्रयोगं नाम त्रिंशतिमः बलिकर्मनाम एकत्रिंशतिम अध्यायः बलिकर्मिको नाम द्वात्रिंशतिमोऽध्यायः प्रतोलीसूत्र-त्रयस्त्रिंशतिमोऽध्यायः द्वारनिर्देशको नाम चतुर्त्रिंशतिमः