संस्कृतसाहित्यस्य रसविषये चर्चा एकस्य काव्यस्य दृष्टान्तमाध्यमेन

From enIKSwiki
Revision as of 11:26, 4 September 2024 by Sriram (talk | contribs) (Created page with " काव्यस्य सारभूतो विषयो भवति रसः। य आस्वादनयोग्योऽर्थाद् यस्य आस्वादनं भूयते स एव रसः। रस्यते आस्वाद्यते इति रसः। यथा रसगोलकस्य रस आस्वादनयोग्य आस्वादितत्वाद्वा तस्य नाम रसगोल...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

काव्यस्य सारभूतो विषयो भवति रसः। य आस्वादनयोग्योऽर्थाद् यस्य आस्वादनं भूयते स एव रसः। रस्यते आस्वाद्यते इति रसः। यथा रसगोलकस्य रस आस्वादनयोग्य आस्वादितत्वाद्वा तस्य नाम रसगोलकः।

काव्यजगति सारपदार्थरूपेण रसस्यावस्थानं सर्वैरालंकारिकैः स्वीकृतम्। तथाहि ‘न हि रसादृते कश्चिदप्यर्थः प्रवर्तते’१। इति भरतमुनेरुक्तिः परवर्तिकाले सर्वैः स्वीकृता। काव्यस्य पठनेन श्रवणेन नाट्यस्य च दर्शनेन सहृदयाणां हृदि विगलितवेद्यान्तरशून्यो य आनन्दोऽनुभूयते स एव रसपदवाच्य इति सार्वजनीनानुभवः।

इदानीं प्रश्न उच्यते ‘रसोऽयं कथमनुभूयते?’ अस्योत्तररूपेण भरतमुनिना प्रवर्तितं रससूत्रं सर्वैरालंकारिकैः स्वीकृतम्। तद्यथा- ‘विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः’२। यद्यपि रससूत्रेऽस्मिन् स्थायिभावो नोल्लिखितः, तथापि ज्ञातव्यमत्र विभावानुभावव्यभिचारिभिः संयोगाद् स्थायिभावो रसरूपेण परिणतो भवति।अत्रापि मतभेदोऽस्ति। मतभेदादस्मादुत्पन्ना विविधा मतवादा परिलक्ष्यन्ते संस्कृतसाहित्ये। तेषां मध्ये भट्टलोल्लटस्य ‘उत्पत्तिवादः’, श्रीशङ्कुकस्या‘नुमितिवादः’, भट्टनायकस्य ‘भुक्तिवादः’, अभिनवगुप्तस्या‘भिव्यक्तिवादः’ इति मतचतुष्टयं सर्वजनविदितम्। रससूत्रस्य व्याख्यानात् प्राक् सूत्रस्य शब्दार्थज्ञानमत्यावश्यकम्।

विभावः-

‘विभावयन्ति’ आस्वादयोग्यतां नयन्तीति विभावाः इति व्युप्तानुसारेण मानवानां मनसि वासनारूपेण विद्यमाना रत्यादीस्थायिभावा येन आस्वाद्यमाना भवन्ति, तस्य नाम विभावः अर्थाद् नाट्यकाव्ययोर्रत्यादिस्थायिभावानां कारणं भवति विभावः। आलम्बनोद्दीपनभेदेन विभावो द्‍विविधः।यद् वस्त्ववलम्ब्य रसोद्गमो भवति स एवालम्बनविभावः। यथा स्वर्गस्थनारीणां तथा मर्त्यनारीणामनुरागस्यालम्बनविभावो भवति श्रीहर्षः। अपरपक्षे उद्देपनविभावो भवतिस्थायिभावस्योद्देपककारणम्। यथा- चन्द्र-वन-निर्जनता-मलयवाय्वादयः रत्याख्यस्थायिभावस्य उद्दीपकाः।

अनुभावः-

अनुभावयन्तीति अनुभावविषयीकुर्वन्तीति अनुभावः। स्थायिभावेऽभिव्यक्ते सति येषां वस्तूनां मध्ये तस्य वहिःप्रकाशो घटति ते एवानुभावाः। अनुभावस्य नामकरणप्रसङ्गे भरतमुनिनोक्तं तदीये नाट्यशास्त्रे- “अनुभाव्यतेऽनेन वागङ्गसत्त्वैः कृतोऽभिनय’ इति अर्थाद् वागङ्गसत्त्वैरभिनयो भवति स्थायि-व्यभोचारिभावानाम्। एते भावा येन अनु अर्थात् पश्चाद् भाविता अर्थाद् ज्ञापिता भवन्ति स एवानुभावः। तथाहि नाट्यशास्त्रे उक्तम्-

    वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते।

    वागङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः॥१

अतो विभावेन भावसमूहो भावितोऽर्थाद् विशिष्टरूपेण ज्ञापितो भवति, अनुभावेन तु भावा अनुभाविता अर्थात् पश्चाद् ज्ञापिता भवति। माल्यादिविषयेभ्यो रत्याख्यस्थायिभावो सूचितो भवति, अतो विभावः शब्दवाच्यः। ततो रत्याख्यस्थायिभावे उद्रेके सति कटाक्षादयो दृष्टा भवन्ति। अत एतेषु कटाक्षादिदर्शनेष्वपि रत्याख्यस्थायिनोऽस्तित्वमनुमीयते। एतेषां क्रमो भवति विभावः―स्थायिभावः―अनुभावः इति। अतो विभावः स्थायिभावस्य कारणमनुभावश्च स्थायिभावस्य कार्यम्। अनुभावस्य लक्षणप्रदानकाले महामुनिना भरतेनोक्तम्- अनुभावः लोकप्रसिद्धः लोकस्वभावानुगतः। मुनेर्भाषायाम्-

         लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः।

         अनुभावविभावाश्च ज्ञेयास्त्वभिनयैबुधैः॥२  

व्यभिचारिभावः-

अस्यालोचनाप्रसङ्गे नाट्यशास्त्रे भरतमुनिनोक्तम्- वि अभि इत्येतावुपसर्गौ। अतो वि-पूर्वकात् ततोऽभिपूर्वकात् चर्-धातोर्णिनि व्यभिचारिन्-शब्दो निष्पन्नः। अस्यार्थो विविधमभिमुखेन रसेषु चरन्तीति व्यभिचारिणः। चरन्ति नयन्तीत्यर्थः। यथा सूर्य इदं नक्षत्रममुं वासरं नयतीति। अतो भरतमुनेर्मते- सूर्येण यथा दिवसः परिणामप्राप्तो भवति, तथैव व्यभिचारिभावैर्रसस्य पूर्णप्रयोगो भवति। अस्य व्यभिचारिभावस्य संख्या भवति त्रयत्रिंशत्। ते यथा-

१.    निर्वेदः- ‘दारिद्र्येष्टवियोगैश्च निर्वेदो नाम जायते’३।

२.    ग्लानिः- ‘वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः’१।

३.    शंका- ‘चौर्यादिजनिता शङ्का प्रायः कार्या भयानके’२।

४.   असूया- ‘परसौभाग्येश्वरतामेधालीलासमुच्छ्रयं दृष्ट्वा उत्पद्‍यते ह्‍यसूया’३।

५.   मदः- ‘मदो मद्योपयोगादुत्पद्यते’४।

६.   श्रमः- ‘अध्वगतिव्यायामैर्नरस्य सङ्गायते श्रमो नाम’५।

७.   आलस्यम्- ‘आलस्यं त्वभिनेयं खेदव्याधिस्वभावजम्’६।

८.   दैन्यम्- ‘चिन्तौत्सुक्यसमुत्था दुःखाद्‍वा दीनता भवेत् पुंसाम्’७।

९.   चिन्ता- ‘ऐश्वर्येष्टद्रव्यापहारजनिता बहुप्रकारा तु हृदयोत्सुक्योपगता चिन्ता समुपजायते’८।

१०. मोहः- ‘अस्थाने तस्करान् दृष्ट्वा त्रासनैर्वा पृथग्विधः तत्प्रतीकारशून्यस्य मोहः’९।

११. स्मृतिः- ‘स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम्’१०।

१२. धृतिः- ‘विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः’११।

१३. बीडा- ‘बीडा नामाकार्यकरणात्मिका’१।

१४. चपलता- ‘अविमृष्य तु यः कार्यं पुरुषो वधताडनं समारभते, स चपलः’२।

१५. हर्षः- ‘प्राप्ते वा अप्राप्ते वा लव्धेऽर्थे प्रियसमागमे वापि / हृदयमनोरथलाभे च हर्षः संजायते पुंसाम्//’ ३इति।

१६. आवेगः- ‘अप्रयनिवेदनादिश्रवणादवधीरितवचनस्य शस्त्रक्षेपत्रासादावेगो नाम सम्भवति४।

१७. जडता- ‘इष्टं वानिष्टं वा सुखदुःखं वा न वेत्ति यो मोहात्/ तुष्णीकः परवशगः स भवति जडसंज्ञकः पुरुषः//’५ इति।

१८. गर्वः- ‘गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैरुत्पद्यते’६।

१९. विषादः- ‘विषादो नाम कार्यारम्भानिस्तरणदैवव्यापत्तिसमुत्था’७।

२०. औत्सुक्यम्- ‘इष्टजनादिवियोगादौत्सुक्यं जायते’८।

२१. निद्रा- ‘आलस्याद् दौर्वल्यात् क्लान्तिजनितात् परिश्रमात् चिन्तात् स्वभावात् रात्रौ जागरणादपि निद्रा पुरुषस्य संभवति’९।

२२. अपस्मारः- ‘भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यग्रहगमनात्/ कालान्तरातिपातादशुचेश्च भवेद् अपस्मारः//’१० इति।

२३. सुप्तम्- ‘निद्राभिभवेन्द्रियोपगमनमोहनैर्भवेत् सुप्तम्’१।

२४. विबोधः- ‘आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतो विबोधः’२।

२५. अमर्षः- ‘अमर्षो नाम विद्यैश्वर्यधनबलाधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते’३।

२६. अवहित्थम्- ‘धार्ष्ट्यजैम्भ्यादिसंभूतमवहित्थं भयात्मकम्’४।

२७. उग्रता- ‘चौर्याभिग्रहयोगान् नृपापराधात्तथोग्रता भवति’५।

२८. मतिः- ‘नानाशास्त्रविनिष्पन्ना मतिः संजायते’६।

२९. व्यधिः- ‘व्यधिर्नाम वातपित्तकफसनिपातप्रभवः’७।

३०. उन्मादः- ‘इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात्/ विविधाच्चित्तविकारादुन्मादो नाम संभवति//’८ इति।

३१. मृत्युः- ‘मरणं नाम व्यधिजमभिघातजं च’९।

३२. त्रासः- ‘महाभैरवनादाद्यैस्त्रासः समुपजायते’१०।

३३. वितर्कः- ‘विचारणादिसंभूतः संदेहजननात्मकः वितर्कः’११।           

                                                 

एतेषु त्रयस्त्रिंशद्व्यभिचारिभावेषु सात्तिकभावाष्टकमन्तर्भुक्तम्।

स्थायिभावः-

आलंकारिकाणां मते केचिद् भावा मानवानां मनसो गूढप्रदेशे सर्वदा प्रवहन्ति। ते च उद्बोधकवस्तुनः तथालम्बनवस्तुनः संसर्गेण उद्बुद्धा भवन्ति। ईदृशस्याभिव्यक्तस्य स्थायिभावस्य नाम रसः। तैत्तिरीयोपनिषदि उक्तम्- ‘रसो वै सः। रसो ह्येवायं लब्ध्वा नन्दीभवति’१ इति। नाट्यशास्त्रस्य सप्तमाध्यायस्य प्रथमे एव भरतेनोक्तम्- ‘वागङ्गासत्त्वोपेतां काव्यार्थान् भावयन्तीति भावाः’। स्थायिभावो भवति आस्वादाङ्कुर-कन्द-स्वरूपः। केनचिद् विरुद्धाविरुद्धसञ्चारिभावेनास्य तिरोधानं न सम्भूयते। स्थायिभावोऽन्तकरणस्य वृत्तिविशेषः। अतोऽस्योत्पत्तिर्विनाशोऽस्ति। स्वरूपतस्तु अन्तःकरणे संस्काररूपेण चिरमवस्थानमस्य परिलक्ष्यते। स्थायिभाव आलोचितः सुष्ठुतया भरतेन दृष्टान्तमाध्यमेन। यथा समानलक्षणाः तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मविचक्षणत्वाद् राजत्वमाप्नुवन्ति तत्रैव च अन्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति। बह्वाश्रयत्वात् स्वामिभूताः स्थायिनो भावाः। अतो भावानां मध्ये स्थायिभावः श्रेष्ठः। तथाहि उक्तम्-

         “यथा नराणां नृपतिः शिष्याणां च यथा गुरुः।

         एवं हि सर्वभावानां भावः स्थायी महानिह॥२”

स्थायिभावानां संख्या अष्ट। ते च रतिर्हासः शोकः क्रोध उत्साहो भयं जुगुप्सा विस्मयश्चेति। तथाहि नाट्यशास्त्रे उक्तम्-

         “रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा।

         जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः॥३

एते स्थायिभावाः सामाजिकचित्ते अनभिव्यक्तावस्थायां तिष्ठन्ति, अभिनयदर्शने काव्यापाठावसरे च समुचितविभावानुभावसञ्चारिभावैस्तेऽभिव्यक्ताः सन्तो रसरूपेण परिणता भवन्ति। अतः सामाजिकानां चित्तगतस्थायिभावैः काव्यवर्णितानां विभावादीनां सम्बन्धोऽभिव्यङ्ग्याभिव्यञ्जकभावः। एवमभिव्यक्तः स्थायिभाव एव रसस्वरूपः। रसोऽयमेव मुख्यतः तात्पर्यविषयीभूतार्थः, स एवानन्दघनः। रस एव काव्यबीजं तथा फलस्वरूपः। तदुक्तं भरताचार्येण-

         यथा बीजाद् भवेद् वृक्षो वृक्षात् पुष्पफलं तथा।

         तथामूलं रसो सर्वे तेभ्यो भावा व्यवस्थिताः॥१

स्थायिभावानामष्टविधत्वाद् रसा अपि अष्टविधाः। स्थायिभावाष्टकस्यास्वादनाद् रसाष्टकं प्रकाशते। यथा रतेः शृङ्गारः, हासाद् हास्यः, शोकात् करुणः, क्रोधाद् रौद्रः, उत्साहाद् वीरः, भयाद् भयानकः, जुगुप्साया विभत्सो, विस्मयाच्चाद्भुत इत्यष्टौ रसा भरतेनोक्ताः। केचिच्च वदन्ति शान्तोऽपि नवमरसः, तस्य च स्थायिभावो निर्वेदः शमो वा।

राजेन्द्रकर्णपूरकाव्ये शृङ्गाररसस्य रत्याख्यभावो मुख्यरूपेण परिलक्ष्यते। अतो विचार्यते काव्येऽस्मिन् शृङ्गार एवाङ्गीरसः। शृङ्गाररसस्य पार्श्वे ये ये रसा विशेषरूपेण परिलक्ष्यन्ते ते भवन्ति- वीररसोऽद्भुतरसस्तथा करुणरसः।

शृङ्गाररसः-

रसस्यास्य भावो येषु येषु श्लोकेषु स्पष्टरूपेण प्रतीयते तेषां मध्ये अन्यतमाः श्लोका भवन्ति- १,२,४,७,१२,१५,१६,१७,१९,२२,२४,२९,३०,३१,३५,३७ इति।

दृष्टान्तरूपेणोच्यते-

सोल्लासा अपि सोद्दमा अपि घनोत्कण्ठा अपि क्वापि नो

यान्ति श्यामनिशान्तरेऽपि रमनोपान्तं कुरङ्गीदृशः ।

सद्यत्वद्यशसा हि कुञ्जररदच्छेदच्छविच्छादिना

नीतं कान्तपुरंध्रिकुन्तलभरश्यामं विरामं तमः ॥२४ ॥२


अत्रालम्बनविभावो भवति राजा श्रीहर्षः। अतो राजविषयकरतिभावो नायिकानां मनसि अभिव्यक्तः। अत्र श्यामनिशाभिलाषादयो भवन्ति उद्दीपनविभावाः। अनुभावश्च भवति गमनविरतिः। न तु उल्लासः। यद्यपि श्लोकस्य प्रथमांशे नायिकानामालम्बनविभाव आसीत्तासां प्राणनाथः परन्तु उत्तरार्धे बोध्यते राजानं प्रति तासां रत्याख्यभावः। अतः श्लोकस्यास्य पाठात् सहृदयाणां मनसि शृङ्गारसाभिव्यक्तिर्भवति।

वीररसः-

राजेन्द्रकर्णपूरकाव्यस्य एकोऽङ्गरसो भवति वीररसः। काव्यस्यास्य येषु येषु श्लोकेषु वीररसस्य भावाभिव्यक्तिः परिलक्ष्यते तेषां मध्ये अन्यतमा भवन्ति- ६,८,१२,२१ इति।

दृष्टान्तरूपेणोच्यते-

चौडी चूडाधरणहरणः कीर्णकर्णावतंसः

कर्णाटीनां मुषितमुरली केरली हारलीलः ।

कुर्वन्नुर्वीतिलक तिलकोत्सृष्ट लाटीललाटं

जीयादेकस्तव नवयशः स्वर्णशाण कृपाणः ॥६॥१


अत्रालम्बनविभावो भवति राजखड्गः। कवेर्मनसि अभिव्यक्त राजविषयकस्तथा राजखड्गविषयक उत्साहो नाम स्थायिभावः। अत्र उद्दीपनविभावा भवन्ति शिरोभूषणस्यापहरणं, कर्णाभूषणस्य विमोचनं, हारहरणमित्यादयः। विजयप्रापनं भवति अनुभावः। अतः श्लोकस्यास्य पाठात् सहृदयाणां मनसि वीररसस्य सञ्चारो भवति।

करुणरसः-

राजेन्द्रकर्णपूरकाव्यस्य सप्तदशतमे श्लोके मुञ्जराजस्य विरहे सरस्वत्या दुःखदुर्दशाया वर्णनकाले कविना करुणरसस्योपस्थापनं कृतम्। तद्यथा-

 तस्थौ कम्पतरङ्गितस्तनतटं वाष्पाम्बुधौताधरं

शोकाक्रान्तकपोलकीलितकरं द्यां मुञ्जराजे गते ।

संजाते त्वयि हाहिहारवलयक्वाणं क्वणत्कङ्कणं

चञ्चत्काञ्चनकाञ्चि सा भगवती ननर्ति वाग्देवता ॥१७॥१


अत्र सरस्वत्या मनसि उत्पन्नः शोको भवति स्थायिभावः। अस्य स्थायिभावस्यालम्बनविभावो भवति मुञ्जराजः। अश्रुपात-परिवेदन-मुखशोषण-वैवर्ण्य-स्तस्तगात्रतादयः सरस्वत्या भवन्ति अनुभावाः। अत्र प्रियजनवियोग-विभवनाशादयो भवन्ति उद्देपनविभावाः। अत्र चिन्ता-भय-विषाद-वेपथु-वैवर्ण्याश्रुजडतादयो भवन्ति व्यभिचारिभावः। अतः श्लोकस्यास्य पाठेन सहृदयाणां मनसि करुणरसस्य सञ्चारो भवति।

अद्भुतरसः-

केषुचित् श्लोकेषु राजेन्द्रकर्णपूरकाव्यस्याद्भुतरसस्योपस्थितिः परिलक्ष्यते। तेषां मध्येऽन्यतमं श्लोकद्‍वयं भवति- नवमस्तथाष्टादश। दृष्टान्तरूपेणोच्यते-

देवाकर्णय नाकिनां पुरि नृणां लोके पुरे भोगिना-

मासन्केचन सन्ति केचन तथा स्थास्यन्ति ये केचन ।

तन्मध्ये न बधूव नास्ति भविता तादृङ् न नीतौ नतौ

कान्तौ कव्यरतौ मतौ रिपुहतौ कीर्तौ च यस्ते समः ॥९॥२


अत्राद्भुतरसस्यालम्बनविभावो भवति राजा श्रीहर्षः एतमालम्बनविभावमवलम्ब्य सहृदयाणां मनसि रसस्यास्य स्थायिभावस्यार्थाद् विस्मयस्योद्रेको भवति। एकाधारे सर्वगुणानां प्रापनं भवति विभावः। अपि च शिहरणं हर्षं तथा रोमाञ्चञ्च भवन्ति अनुभावाः। गर्वादयो भवन्ति व्यभिचारिणः। अतः काव्यपाठेन सहृदयाणां मनसि विस्मयस्योद्रेको भवति। विस्मयादस्मादद्भुतरसस्याभिव्यक्तिर्भवति।

 इयमेव काव्यस्यास्य संक्षिप्ता रससमीक्षा।        


ग्रन्थसूची


१       अशोकनाथशास्त्रिकृतः ‘ रस ओ भाव’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९९८ तमे खिस्ताव्दे प्रकाशितः।

२      आनन्दवर्धनकृतः ‘ध्वन्यालोक(प्रथमोद्योत)’ इत्याख्यः ग्रन्थः सत्यनारायण-चक्रवर्तिसम्पादितः ‘संकृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९९८ तमे खिस्ताव्दे प्रकाशितः।

३      ‘उपनिषद्ग्रथेवली’ इत्याख्यः ग्रन्थः स्वामिगम्भीरानन्दसम्पादितः ‘ उद्वोधन कार्यालय’ इत्याख्यसंस्थानतः  कालिकातायां १९६२ तमे खिस्ताव्दे प्रकाशितः। सप्तमसंस्करणम्।

४      ऋग्वेदः रामगोविन्दत्रिवेदीसम्पादितः ‘चौखाम्वा विद्याभवन’ इत्याख्यसंस्थानतः  वाराणस्यां २०११ तमे खिस्ताव्दे प्रकाशितः। 

५      कलहणकृतः ‘राजतरङ्गिणी ’ इत्याख्यः ग्रन्थः पञ्चानन-तर्करत्नेन सम्पादितः ‘कलिकाता विश्वविद्यालयः ’ इत्याख्यसंस्थानतः कलिकातायां १३१७ तमे खिस्ताव्दे प्रकाशितः।

६      कालिदासकृतः ‘अभिज्ञानशकुन्तलम्’ इत्याख्यः ग्रन्थः सत्यनारायण-चक्रवर्तिमहोदयेन सम्पादितः ‘ संकृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां २०१० तमे खिस्ताव्दे प्रकाशितः। सप्तमसंस्करणम्।

७     ‘काव्यमाला’ इति संकलनग्रन्थः दुर्गाप्रसादमहोदयेन काशीनाथमहोदयेन च सम्पादितः ‘ निर्णय-गागर-प्रेस’ इत्याख्यसंस्थानतः बोम्बाई इति नगरे १९३२ तमे खिस्ताव्दे प्रकाशितः।

८      गङ्गादासकृतः ‘छन्दोमञ्जरी’ इत्याख्यः ग्रन्थः श्रीरामपद-भट्टाचार्येण सम्पादितः ‘संकृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९९४तमे खिस्ताव्दे प्रकाशितः।

९      जगदीशचन्द्रमिश्रकृतः ‘अलंकारशास्त्रस्येतिहासः’ इत्याख्यः ग्रन्थः ‘चौखाम्बा-सुरभारती-प्रकाशन’ इत्याख्यसंस्थानतः वाराणस्यां २००९ तमे खिस्ताव्दे प्रकाशितः।

१०   जयश्री-चट्टोपाध्यायकृतः ‘ अलंकारशास्त्रेर समृद्ध इतिहास’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां २००६तमे खिस्ताव्दे प्रकाशितः।

११    दण्डिकृतः ‘काव्यादर्शः ’ इत्याख्यः ग्रन्थः अनिल-वसुना सम्पादितः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां २००२ तमे खिस्ताव्दे प्रकाशितः। 

१२   द्‍विजेन्द्रनाथशास्त्रिकृतः ‘संस्कृतसाहित्यविमर्शः’ इत्याख्यः ग्रन्थः ‘भारतीप्रतिष्ठान’ इत्याख्यसंस्थानतः महाराष्ट्रनगरे १९५६ तमे खिस्ताव्दे प्रकाशितः।

१३   धीरेन्द्रनाथबन्धोपाध्यायकृतः ‘संस्कृतसाहित्येर इतिहास’ इत्याख्यः ग्रन्थः ‘पश्चिमवङ्ग राज्य पुस्तक पर्षद्’ इत्याख्यसंस्थानतः कलिकातायां २००० तमे खिस्ताव्दे प्रकाशितः। द्‍वितीयसंस्करणम्।

१४   धीरेन्द्रनाथबन्धोपाध्यायकृतः ‘संस्कृत अलंकारशास्त्र तत्त्व ओ समीक्षा’ इत्याख्यः ग्रन्थः ‘पश्चिमवङ्ग राज्य पुस्तक पर्षद्’ इत्याख्यसंस्थानतः कलिकातायां २०१२ तमे खिस्ताव्दे प्रकाशितः।

१५   भरतमुनिकृतः ‘ नाट्यशास्त्रम्’ इत्याख्यः ग्रन्थः पुष्पेन्द्र-कुमारमहोदयेन सम्पादितः ‘निउ-भारतीय-वुक्-कर्परेशन्’ इत्याख्यसंस्थानतः दिल्ली इति नगर्यां २०१०तमे खिस्ताव्दे प्रकाशितः।

१६   भामहकृतः ‘काव्यालंकारः’ इत्याख्यः ग्रन्थः वटुनाथ-शर्मणा बलदेव-उपाध्यायेन च सम्पादितः ‘चौखम्बा विद्याभवन’ इत्याख्यसंस्थानतः वाराणस्यां १९८५ तमे खिस्ताव्दे प्रकाशितः।

१७   भोजकृतः ‘ सरस्वतीकण्ठाभरणम्’ इत्याख्यः ग्रन्थः केदारनाथेन दुर्गाप्रसादेन च सम्पादितः ‘ निर्णय-सागर-प्रेस’ इत्याख्यसंस्थानतः मुम्बाई इति स्थाने १८९४ तमे खिस्ताव्दे प्रकाशितः।

१८   मम्मटाचार्यकृतः ‘काव्यप्रकाशः’ इत्याख्यः ग्रन्थः रामसागर-त्रिपाठीमहोदयेन सम्पादितः ‘मोतीलाल-बनारसीदासः’ इत्याख्यसंस्थानतः वाराणस्यां १६८३ तमे खिस्ताव्दे प्रकाशितः।

१९   मम्मटाचार्यकृतः ‘काव्यप्रकाश(नवम ओ दशम)’ इत्याख्यः ग्रन्थः विजया-गोस्वामिसम्पादितः ‘सदेश’ इत्याख्यसंस्थानतः कलिकातायां २००६ तमे खिस्ताव्दे प्रकाशितः।

२०   मंखकृतः ‘ शीकण्ठचरितम्’ इत्याख्यः ग्रन्थः ‘काव्यमाला’ इति संकलने अन्तर्भूक्तः दुर्गाप्रसादमहोदयेन काशीनाथमहोदयेन च सम्पादितः ‘निर्णय-सागर-प्रेस’ इत्याख्यसंस्थानतः मुम्बाई इति नगरे १९३२ तमे खिस्ताव्दे प्रकाशितः।


२१   महाकविशम्भुकृतः ‘राजेन्द्रकर्णपूरः’ इत्याख्यः ग्रन्थः ड. देवकुमारीसम्पादितः ‘भारतीय-विद्या-प्रकाशन’ इत्याख्यसंस्थानतः वाराणस्यां १९७३ तमे खिस्ताव्दे प्रकाशितः।

२२   रमारञ्जन-मुख्योपाध्यायकृतः ‘रससमीक्षा’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९६१तमे खिस्ताव्दे प्रकाशितः।


२३   वामनकृतः ‘काव्यालंकारसूत्रवृत्तिः’ इत्याख्यः ग्रन्थः अनिल-चन्द्र-वसुना सम्पादितः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९७७ तमे खिस्ताव्दे प्रकाशितः।

२४   विद्यानाथकृतः ‘प्रतापरुद्रीयम् ’ इत्याख्यः ग्रन्थः के. पि. त्रिवेदी महोदयेन सम्पादितः बोम्बाई इत्याख्यस्थानतः १९०९ तमे खिस्ताव्दे प्रकाशितः।

२५  विष्णुपद-भट्टाचार्यकृतः ‘प्राचीनभारतीय अलंकारशास्त्रेर भूमिका’ इत्याख्यः ग्रन्थः  ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९५३ तमे खिस्ताव्दे प्रकाशितः।

२६  विष्णुपद-भट्टाचार्यकृतः ‘काव्यमीमांसा’ इत्याख्यः ग्रन्थः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९८२ तमे खिस्ताव्दे प्रकाशितः।

२७  विष्णुपद-भट्टाचार्यकृतः ‘साहित्यमीमांसा’ इत्याख्यः ग्रन्थः ‘विश्वभारती-ग्रन्थन-विभाग’ इत्याख्यसंस्थानतः कलिकातायां १९८२ तमे खिस्ताव्दे प्रकाशितः।

२८   विश्वनाथकृतः ‘साहित्यदर्पणः’ इत्याख्यः ग्रन्थः ड. सत्यव्रतसिंहेन सम्पादितः ‘चौखम्वा विद्याभवन’ इत्याख्यसंस्थानतः वाराणस्यां १९५८ तमे खिस्ताव्दे प्रकाशितः।

२९   विलहणकृतः ‘विक्रमाङ्कदेवचरितम’ इत्याख्यः ग्रन्थः जि. बुलारमहोदयेन सम्पादितः ‘ वि.एस. एस.’ इत्याख्यसंस्थानतः बोम्बाई इति नगर्यां १८७५तमे खिस्ताव्दे प्रकाशितः।

३०   ‘विष्णुधर्मोत्तरपुराणम्’इति ग्रन्थः प्रियबाला-साहा इत्येन सम्पादितः ‘इ. मर्लवोरुख ’ इत्याख्यसंस्थानतः  लण्डन इति स्थाने २००३ तमे खिस्ताव्दे प्रकाशितः।

३१   श्यामापद-चक्रवर्तिकृतः ‘अलंकारचन्द्रिका’ इत्याख्यः ग्रन्थः सम्पादितः ‘वामा पुस्तकालय’ इत्याख्यसंस्थानतः कलिकातायां २००६तमे खिस्ताव्दे प्रकाशितः।

३२   हेमचन्द्रकृतः ‘काव्यानुशासनम् ’ इत्याख्यः ग्रन्थः रसिकलाल-सि.-पारिख-सम्पादितः ‘मुम्बाई ’ इत्याख्यसंस्थानतः  १९३८ तमे खिस्ताव्दे प्रकाशितः।                                  




१ नाट्यशास्त्रम्। अध्यायः-६। पृष्ठासंख्या-३०६ (अभिनवभारती इति टीकायाम्)।

२ तत्रैव। अध्यायः-६। पृष्ठासंख्या-२९१।

१ नाट्यशास्त्रम्। अध्यायः-७। कारिकासंख्या-५। पृष्ठासंख्या-३४८।

२ तत्रैव। अध्यायः-७। कारिकासंख्या-६। पृष्ठासंख्या-३४९।


३ नाट्यशास्त्रम्। अध्यायः-७। कारिकासंख्या-२८। पृष्ठासंख्या-३५९।


१ नाट्यशास्त्रम्। अध्यायः-७। कारिकासंख्या-३१। पृष्ठासंख्या-३६०।


२ तत्रैव। अध्यायः-७। कारिकासंख्या-३३। पृष्ठासंख्या-३६०।


३ तत्रैव। अध्यायः-७। कारिकासंख्या-३६। पृष्ठासंख्या-३६०।


४ तत्रैव। अध्यायः-७। कारिकासंख्या-३८। पृष्ठासंख्या-३६२।


५ तत्रैव। अध्यायः-७। कारिकासंख्या-४७। पृष्ठासंख्या-३६४।


६ तत्रैव। अध्यायः-७। कारिकासंख्या-४८। पृष्ठासंख्या-३६५।


७ तत्रैव। अध्यायः-७। कारिकासंख्या-४९। पृष्ठासंख्या-३६५।


८ तत्रैव। अध्यायः-७। कारिकासंख्या-५०। पृष्ठासंख्या-३६६।


९ तत्रैव । अध्यायः-७। कारिकासंख्या-५२। पृष्ठासंख्या-३६६।


१०तत्रैव । अध्यायः-७। कारिकासंख्या-५४। पृष्ठासंख्या-३६७।


११ तत्रैव । अध्यायः-७। कारिकासंख्या-५६। पृष्ठासंख्या-३६८।


१ तत्रैव। अध्यायः-७। कारिकासंख्या-५८। पृष्ठासंख्या-३६९।


२ तत्रैव। अध्यायः-७। कारिकासंख्या-६०। पृष्ठासंख्या-३६९।


३ तत्रैव। अध्यायः-७। कारिकासंख्या-६१। पृष्ठासंख्या-३७०।


४ तत्रैव। अध्यायः-७। कारिकासंख्या-६४। पृष्ठासंख्या-३७१।


५ तत्रैव। अध्यायः-७। कारिकासंख्या-६६। पृष्ठासंख्या-३७२।


६ तत्रैव। अध्यायः-७। कारिकासंख्या-६७। पृष्ठासंख्या-३७३।


७ तत्रैव। अध्यायः-७। कारिकासंख्या-६८। पृष्ठासंख्या-३७३।


८ तत्रैव। अध्यायः-७। कारिकासंख्या-७०। पृष्ठासंख्या-३७४।


९ तत्रैव। अध्यायः-७। कारिकासंख्या-७१। पृष्ठासंख्या-३७४।


१० तत्रैव। अध्यायः-७। कारिकासंख्या-७३। पृष्ठासंख्या-३७५।


१नाट्यशास्त्रम्। अध्यायः-७। कारिकासंख्या-७५। पृष्ठासंख्या-३७६।


२तत्रैव। अध्यायः-७। कारिकासंख्या-७७। पृष्ठासंख्या-३७७।


३ तत्रैव। अध्यायः-७। कारिकासंख्या-७८। पृष्ठासंख्या-३७७।


४ तत्रैव। अध्यायः-७। कारिकासंख्या-८०। पृष्ठासंख्या-३७८।


५ तत्रैव। अध्यायः-७। कारिकासंख्या-८१। पृष्ठासंख्या-३७८।


६ तत्रैव। अध्यायः-७। कारिकासंख्या-८२। पृष्ठासंख्या-३७९।


७ तत्रैव। अध्यायः-७। कारिकासंख्या-८३। पृष्ठासंख्या-३८०।


८ तत्रैव। अध्यायः-७। कारिकासंख्या-८४। पृष्ठासंख्या-३८०।


९ तत्रैव। अध्यायः-७। कारिकासंख्या-८६। पृष्ठासंख्या-३८१।


१० तत्रैव। अध्यायः-७। कारिकासंख्या-९१। पृष्ठासंख्या-३८३।


११ तत्रैव। अध्यायः-७। कारिकासंख्या-९२। पृष्ठासंख्या-३८३।


१ तैत्तिरीयोपनिषद्। ब्रह्मानन्दवल्ली-२। अनुवाक्-७। पृष्ठासंख्या-३०१।

२ नाट्यशास्त्रम्। अध्यायः-७। कारिकासंख्या-८। पृष्ठासंख्या-३५१।

३ नाट्यशास्त्रम्। अध्यायः-६। कारिकासंख्या-१७। पृष्ठासंख्या-२८५।


१ नाट्यशास्त्रम्। अध्यायः-६। कारिकासंख्या-३६। पृष्ठासंख्या-३०६।


२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-२४। पृष्ठासंख्या-३७।

१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६। पृष्ठासंख्या-२१।


१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१७। पृष्ठासंख्या-३१।


२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-९। पृष्ठासंख्या-२४।

Authored by ड: पियूष-कान्ति-पालः

Published by,