संस्कृतसाहित्यस्य अलंकारविषये चर्चा एकस्य काव्यस्य दृष्टान्तमाध्यमेन
अलंकारशब्दस्य द्विविधोऽर्थो बोध्यव्यः। प्रथमतः ‘अलं क्रियते’ अनेनेति करणवाच्ये निष्पन्नोऽलंकारशब्दः। अर्थोऽस्य भवति- यमकोपमाद्यलंकारः। द्वितीयतोऽलंकृतिरलंकारः इति भाववाच्ये निष्पन्नोऽलंकारशब्दो गुणालंकाररीत्यादिसर्वसौन्दर्यबर्धकार्थकः। अलंकारशब्दोऽयं पङ्कजशब्दस्यैव योगरूढशब्दः। पङ्कजो यथा सामान्यार्थे पङ्के जातानां सर्वेषां बोधको भवति, विशेषार्थे तु पद्ममात्रस्य बोधको भवति; तथैव सामान्यार्थेऽलंकारशब्दः सौन्दर्यमात्रस्य बोधको भवति, विशेषार्थे तु उपमादिसर्वालंकाराणां बोधको भवति।
काव्येऽलंकारस्यापरिहार्यत्वं सर्वैः समालोचकैर्विशेषतो गुणवादिभिरलंकारवादिभिः स्वीकृतं तेषां काव्यसंज्ञायाम्। यथा-
वामनेनोक्तम्- ‘काव्यं ग्राह्यमलंकारात्’इति१।
अपि च तेनोक्तम्- ‘काव्योशब्दोऽयं गुणालंकृतयोः शब्दार्थयोर्वर्तते’इति२।
भोजराजेनोक्तम्- ‘अदोषं गुणवत्काव्यमलंकारैरलंकृतम्’३इति।
विद्यानाथेनोक्तम्- ‘गुणालंकारसहितौ शब्दार्थौ दोषवर्जितौ’इति४।
मम्मटाचार्येणोक्तम्- ‘तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि’इति५।
वाग्भटाचार्येणोक्तम्- ‘शब्दार्थौ निर्दोषौ सगुणौ प्रायः सालंकारौ काव्यम्’इति६।
हेमचन्द्रेणोक्तम्- ‘अदोषौ सगुणौ सालंकारौ च शब्दार्थौ काव्यम्’इति७।
क्षेमेन्द्रेणोक्तम्- ‘काव्यं विशिष्टशब्दार्थसाहित्यं सदलंकृतिः’इति८।
अतः प्राचीनकालादेवालंकारस्योपरि गुरुत्वारोपः सर्वैरलंकारिकैः कृतः। भामहेनाप्युक्तं तदीये काव्यालंकारग्रन्थे-
‘न कान्तमपि निर्भूषं विभाति वनिताननम्’इति१।
अतः काव्यं हि सर्वेषां समीपे उपादेयम्। यतो ह्यलंकारोऽस्ति तत्र। तथाहि वामनेनोक्तं तदीये काव्यालंकारसूत्रवृत्तौ- ‘काव्यं ग्राह्यमलंकारात्’।
काव्ये प्रयुक्तस्यालंकारस्य लक्षणे तेनोक्तम्-
‘काव्यशोभायाः कर्तारो धर्मा गुणाः। तदतिशयहेतवस्त्वलंकाराः’२।
अर्थात् काव्यशोभायाः सम्पादका अर्थाद् मूलीभूता धर्मा भवन्ति गुणाः। अलंकारः केवलः शोभाया वर्धकः।
अपरपक्षे काव्यादर्शे आचर्येण दण्डिनोक्तम्-
‘काव्यशोभाकरान् धर्मानलंकारान् प्रचक्षते’इति३।
अर्थात् काव्यस्य यो धर्मः काव्यशोभां सृजति, स एवालंकारः। उक्तलक्षणानुसारेण यद्यपि सौन्दर्यजनकसर्वोपादानानि अलंकारपदवाच्यानि, तथाप्यलंकारशास्त्रे विशेषार्थे उपमादयोऽलंकारपदेन बोध्याः।
अलंकारसम्पर्के विश्वनाथस्य मतं भवति-
शव्दार्थयोरस्थिरा ये धर्मा शोभातिशायिनः।
रसादीनुपकुर्वन्तोऽलंकारास्तेऽङ्गदादिवत्॥इति४।
अर्थाद् ये धर्मा न केवलं काव्यस्य वहिरङ्गशोभां वर्धयन्ति, काव्यस्यात्मभूतरसस्याप्युपकारका भवन्ति, तेऽलंकाराः।
प्राचीनालंकारिकाणां मते शब्दार्थभेदेनालंकारो द्विविधः। यत्र शब्दमाध्यमेन सौन्दर्यमागच्छति तत्र शब्दालंकारः, यत्रार्थमाध्यमेन काव्यसौन्दर्यमागचछति तत्रार्थालंकारः।
राजेन्द्रकर्णपूरकाव्ये कविना शम्भुना नैपुण्येनालंकाराणां प्रयोगः कृतः। काव्यपाठाज्ज्ञायते कवेरलंकारप्रयोगस्य दक्षता। काव्यविचारेण ज्ञायते यत्- काव्येऽस्मिन् श्लोकसंख्या पञ्चसप्ततिः, प्रयुक्तालंकाराणां संख्याष्टत्रिंशत्। अपि चास्ति एकैकस्मिन् श्लोके एकाधिकालंकाराणां प्रयोगः, एकस्यालंकारस्य वारंवारं प्रयोगः। शब्दालंकाराणां मध्ये वारंवारं प्रयुक्तालंकारद्वयं भवति अनुप्रासयमकाख्यम्; अर्थालंकाराणां मध्येऽन्यतमा भवन्ति अतिशयोक्तिव्यतिरेकोपमाकाव्यलिङ्ग-रूपक-दीपकादयः।
राजेन्द्रकर्णपूरकाव्ये कविना शम्भुना प्रयुक्ता अष्टत्रिंशदलंकारा भवन्ति- अनुप्रासो यमकं श्लेषोऽसम्बन्धातिशयोक्तिर्व्यतिरेक उपमा दीपकमत्युक्तिरुत्प्रेक्षा निदर्शना तद्गुणालंकारः परिणामः सन्देहोऽर्थान्तरन्यासो भ्रान्तिमान् प्रतिवस्तूपमा विशेषोक्तिर्विभावना समासोक्तिः स्वभावोक्तिः संसृष्टिः संकरः परिकरः पर्यायोक्तः समुच्चय आक्षेपोऽर्थापत्तिर्यथासंख्या विरोधाभासः स्मरणालंकारो हेत्वलंकार उल्लेख उदात्तालंकारोऽधिकालंकारः प्रतीपालंकारो विशेषालंकारश्चेति।
राजेन्द्रकर्णपूरकाव्ये कविना शम्भुना प्रयुक्तानामलंकाराणामालोचना संक्षेपेण क्रियते इदानीमधः। आलोचनाकाले लक्षणनिर्देशार्थमत्र विश्वनाथप्रदत्तं लक्षणं गृहीतम्।
*अनुप्रासः
(श्लोकसंख्या- १२, १६, २७, २८, ३२, ३३, ३४, ३५, ३८, ४०, ४३, ४७, ४८, ५१, ५७, ६२, ६५, ६७, ७०, ७१, ७२, ७४, ७५)
‘अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्’१ अर्थात् सदृशव्यञ्जनवर्णानामावृत्तिरेवानुप्रासः। तत्र स्वरवर्णानां सादृश्यं नात्यावश्यकम्। अनुप्रासस्य भेदपञ्चकं भवति छेकानुप्रासो, वृत्तानुप्रासः, श्रुत्यनुप्रासो, अन्त्यानुप्रासः, लाटानुप्रासश्चेति। एतेषां मध्ये प्रथमभेदत्रयं प्रयुक्तं राजेन्द्रकर्णपूरकाव्ये।
छेकानुप्रासः
‘छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा’१। अर्थात् सादृश्यमवलम्ब्य व्यञ्जनानां स्वरूपानुसारेण क्रमानुसारेण च पुनरुच्चारणमेव छेकानुप्रासः। यथा-
यो वैरिष्वनलो नलो वसुमतिदीपो दिलीपोऽथ यो
यो मानेन पृथुः पृथुर्जगति यो निर्लाघवो राघवः ।
यःकीर्तौ भरतो रतो नृपगुणैर्यः शंतनुः शंतनुः
संजाते त्वयि कस्य न क्षितिपते सर्वेऽपि ते विस्मिताः ॥२इति।
श्लोकेऽस्मिन् ‘दीपो-दिलीपो’- इत्यत्र वर्णसमूहानां सकृत् पुनरुच्चारणात् छेकानुप्रासः।
वृत्तानुप्रासः-
अनेकस्यैकधा साम्यमसकृद्वाऽप्यनेकधा।
एकस्य सकृदप्येष वृत्त्यनुप्रास य्च्यते॥३इति।
अर्थात् स्वरूपानुसारेण (न क्रमानुसारेण) व्यञ्जनानां वारंवारमावृत्तिर्भवति वृत्त्यानुप्रासः। यथा-
राकाकान्तकलाङ्कुराङ्कितजरत्किंशो निशीथक्षणे
गायन्तीषु सुराङ्गनासु भवतः कैलासकुञ्जे यशः ।
निष्पीड्य प्रियमौलिचन्द्रकलिकां कन्दर्पकेलिक्लम-
स्वापं दुरयितुं दृशोर्गिरिजया दत्ताः सुधाविन्दवः ॥४इति।
अत्र क-र-तदिव्यञ्जनानां वारंवारमावृत्तिः परिलक्ष्यते। अतो वृत्त्यानुप्रासस्यो दृष्टान्तोऽयम्।
श्रुत्यनुप्रासः
उच्चार्य्यत्वाद् यदेकत्र स्थाने तालुरदादिके।
सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते॥१इति।
अर्थात् तालुदन्तादिस्थानेषु उच्चारितव्यञ्जनानां यत् सादृश्यं तदेव श्रुत्यनुप्रासः। यथा-
कान्तारेषु च काननेषु च सरित्तीरेषु च क्ष्माभृता-
मुत्सङ्गेषु च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च ।
भ्रान्ताः केतकगर्भपल्लवरुचः श्रान्ता इव क्ष्मापते
कान्ते नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ॥२इति।
अत्र पदस्य मध्ये ‘एषु च’ इति वर्णसमूहस्य वारंवारं सदृश्यात् श्रुत्यनुप्रासः।
*यमकम्
(श्लोकसंख्या- १२, २३, ४२, ४४, ५१, ५२, ५७, ६१, ६८, ६९, ७०, ७१, ७२ )
सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः।
क्रमेण तेनैवावृत्तिर्यमकं वनिगद्यते॥३इति।
अर्थादर्थे सति भिन्नार्थे, अर्थे चासति तर्हि निरर्थकरूपेण स्वरव्यञ्जनानां सकृदुच्चारणादनन्तरं पूर्वक्रमानुसारेण पुनरुच्चारणमेव यमकम्। यथा-
अपारपुलिनस्थलीभुवि हिमालये मालये
निकामविकटोन्नते दुरभिरोहणे रोहणे ।
महत्यमरभूधरे गहनकन्दरे मन्दरे
भ्रमन्ति न पतन्त्यहो परिणता भवत्कीर्तयः ॥१इति।
अत्र ‘मालये-मालये’, ‘रोहणे-रोहणे’ इति निरर्थकसार्थकपदयोः पुनरुच्चारणाद् यमकालंकारः। अत्र प्रथमपदं निरर्थकं द्वितीयपदञ्च सार्थकम्।
*श्लेषः
( श्लोकसंख्या- १५, ३४, ५३, ५६, ५८, ६०)
श्लेषो द्विविधः- शब्दश्लेषोऽर्थश्लेषश्च। ‘श्लिष्टैः पदैरनेकार्थाभिधाने श्लेष इष्यते’२ इति। समप्रयत्ने उच्चारणादनेकशब्दानां भेदो विलुप्तो भूत्वा यद् मेलनं स श्लेषोऽर्थात् शब्दश्ल्लेषः। अपरपक्षे- ‘शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाचकम’३र्थादेकार्थवाचकशब्दप्रयोगेणानेकार्थानां प्रकाशः (अभिधाशक्त्या लक्षणाशक्त्या च ) भवति अर्थश्लेषः।
काव्येऽस्मिन् द्विविधयोरलंकारयोः प्रयोगः कविना शम्भुना कृतः। यथा-
शब्दश्लेषः-
अधिकं समाप्तसमरः प्रथितो भुवनेषु गोपनरसोत्कः ।
भाति सदानवविजयं कुर्वन्कृष्णस्तवायमसिः ॥४इति।
राज्ञः पक्षे- पूर्णरूपेण समाप्तःसमरो येन, भुवनेषु प्रथितः, रक्षाकार्ये उत्सुकः, कृष्णरूप! तव असिः सदा नवविजयं कुर्वन् प्रतिभाति।
कृष्णपक्षे- कंससम्बन्धीयसमरः समाप्तो येन, गोपजनान् प्रति प्रेमोत्कण्ठितः, दनवविजयः, सः कृष्णो भगवान् शोभते।
अत्र श्लिष्टशब्दा भवन्ति ‘अधिकं समाप्त-समरः’, ‘अधिकंसम्-आप्तसमरः’ ; ‘गोपन-रसोत्कः’, ‘गोप-नरसोत्कः’ ; ‘सदा-नव-विजयम्’, ‘स-दानव-विजयम्’ ; कृष्णः- एकार्थे भगवान्, अपरार्थे कृष्णवर्णः। श्लिष्टपदैरनेकार्थज्ञापनादत्र शब्दश्लेषः।
अर्थश्लेषः
कण्ठान्तः क्वणितं दिवाकरकरक्लान्त्या रजोविप्लवै-
स्तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः ।
श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामभ्रुवा-
मेवं देव मरोस्तटेऽपि सुरतक्रीडानुरुपः क्रमः ॥१इति।
अत्र श्रीहर्षस्य विजयाभियानेन शत्रुनारीणां पलायनकाले तासामवस्था तथा कार्यक्रमः सुरतक्रीडाकाले नारीणामवस्थया सह तथा कार्यक्रमेण सह समानरूपः। यथा- सुर्यतापेन क्लान्ता भूत्वाव्यक्तकण्ठस्वरः, सुरतक्रीडाकाले कामज्वरस उत्तपेनाव्यक्तकण्ठस्वरेण सह समानरूपः, धुलिरोधार्थं वस्त्रखण्डेन नेत्राच्छादनं लज्जया नेत्राच्छादनेन सह समानं; कुशाघातेन ‘सी सी’ इति कण्ठस्वरः सुरतकाले कष्ट-वेदना-जनितेनाव्यक्तकण्ठस्वरेण सह समानरूपः, वन्यप्राणिनो भयात् तासां दीर्घश्वासः सुरतकाले परिश्रमजनितेन दीर्घश्वासेन सह समानरूपः। अतोऽत्र सुरतक्रीडायां मरुस्थले च समरूपकार्यक्रमात् तथा पदपरिवृत्तिसहत्वादर्थश्लेषः।
अतिशयोक्तिः
(श्लोकसंख्या- १, १०, १४, १८, २०, २३, २७, ३०, ३१, ३८, ४२, ४५, ५३, ७३ )
‘सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते’२ अर्थाद् विषयस्योल्लेखं कृत्वा विषयिणोऽभेदत्वारोपो भवति अध्यवसायः। यदाध्यवसायोऽयं निश्चयात्मिको भवति तदतिशयोक्तिः। भेदेऽभेदः, सम्बन्धेऽसम्बन्धोऽभेदे भेदोऽसम्बन्धे सम्बन्धः, कार्यकारणयोः पौर्वापर्यस्य व्यतिक्रमरिति उपायपञ्चकेनातिश्योक्तिर्भवेत्। यथा-
बद्धस्पर्धः क्षितिधरसुताभ्रूलतबक्रतयां
भूयाद् भूत्यै तव हरशिरः शेखरो रोहिणीशः ।
यं निष्पीड्य स्तनमुखनखोल्लेखरेखासु देव्याः
सम्भोगान्ते वितरति सुधास्यन्दमर्धेन्दुमौलिः ॥१इति।
अत्र निष्पीडनक्रियया सह चन्द्रस्य सम्बन्धोऽसिद्धोऽर्थादिह जगति एतियोर्मध्ये सम्बन्ध्प् नास्ति। तथापि कविना सम्बन्धः कृतः। अतोऽत्रासम्बन्धे सम्बन्धरूपातिसयोक्तिः।
व्यतिरेकः
(श्लोकसंख्या- ३, १०, १४, १६, १९, २५, २८, ३०, ३१, ४१, ४४, ४७, ५१, ५९, ६०, ६१, ६४, ७२, ७३ )
‘आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा व्यतिरेकः’२- उपमानादुपमेयस्योत्कर्षतार्थादाधिक्यमपकर्षता वा यदि कुत्रापि वर्णिता भवति तर्हि तत्र व्यतिरेकालंकारो भवेत्। यथा-
यो वैरिष्वनलो नलो वसुमतिदीपो दिलीपोऽथ यो
यो मानेन पृथुः पृथुर्जगति यो निर्लाघवो राघवः ।
यःकीर्तौ भरतो रतो नृपगुणैर्यः शंतनुः शंतनुः
संजाते त्वयि कस्य न क्षितिपते सर्वेऽपि ते विस्मिताः ॥३इति।
अत्र नलादिनृपेभ्यः श्रीहर्षस्योकर्षता वर्णिता। अत एवात्र व्यतिरेकालंकारः।
काव्यलिङ्गम्
(श्लोकसंख्या- ४, ३२, ३७, ४०, ४३, ४७, ४८, ५५, ६०, ६३, ६४, ६६, ७०, ७१ )
‘हेतुर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते’१ अर्थात् कश्चिद् वाकार्थः कश्चिद्वा पदार्थो व्यञ्जनावशतो यदि कस्यचिद् विषयस्य हेतुरूपेण प्रतियमानो भवति सः काव्यलिङ्गालंकारः। यथा-
लोलन्मौक्तिकवल्लि वेल्लदलकं वाचालकाञ्चिगुणं
चञ्चत्काञ्चनकङ्कणं च गिरिजा जातोत्सवा नृत्यतु ।
त्वत्कीर्तिश्रवणोन्मुखेन विलसत्कल्लोलकोलहला
यन्मुक्ता मुकुटान्मृगाङ्कशकलोत्तंसेन मन्दाकिनी ॥२इति।
अत्र पार्वत्या नर्त्तनरूपकार्यस्य शिवेन गङ्गापरित्यागरूपकार्यस्य गङ्गया श्रुतिविघ्नरूपहेतुरपि कविना विवर्णितः। अतोऽत्र वाक्यार्थहेतुरूपकाव्यलिङ्गम्।
रूपकम्
(श्लोकसंख्या- ६, १५, २२, २८, ३४, ३६, ४२, ४३, ५१, ५७, ५८, ६१, ६३, ६६, ६९ )
‘रूपकं रूपितारोपो विषये निरपह्नवे३’ अर्थादुपमेयस्य निषेधं न कृत्वा उपमेयपदार्थे उपमानस्याभेदारोप एव रूपकालंकारः। यथा-
संदिष्टं वसुधासधाकर शचिकान्तेन नुञ्चोद्यमं
देव त्वं प्रबलप्रतापदहनोद्रेकाय बद्धाञ्जलि ।
एते मानुभवन्तु नाकतरुणी कर्णावतंसोचताः
क्लान्ति नन्दनकन्दलीषु कलितव्यापल्लवा पल्लवाः ॥४इति।
अत्र प्रतापे दहनस्यार्थादनकस्यारोपाद्रूपकालंकारः।
उपमा
(श्लोकसंख्या- ३, ४, ५, ३८, ३९, ४५, ५०, ६१, ७४, ७५ )
‘साम्यं वाच्यमवैधर्म्यं वाक्यैके उपमा द्वयोः’१ अर्थाद् एकस्मिन् वाक्ये विरुद्धदर्मस्योल्लेखं न कृत्वा द्वयोः पदर्थयोः सादृश्यं यदि वाच्यरूपेण प्रकाशितं भवति तर्हि उपमालंकारो भवति। यथा-
व्याप्तव्योमलते मृगाङ्कधवले निर्धौतदिङ्मण्डले
देव त्वद्यशसि प्रशान्ततमसि प्रौढे जगत्प्रेयसि ।
कैलासन्ति महीभृतः फणभृतः शेषन्ति पाथोधयः
क्षीरोदन्ति सुरद्विपन्ति करिणो हंसन्ति पुस्कोकिलाः ॥२इति।
श्लोकेऽस्मिन् ‘मृगाङ्कधवले त्वद्यशसि’ इत्यत्र राज्ञो यशः चन्द्रस्य शुभ्रतया सह तुलना कृता। अत्र इवदिसादृश्यवाचकशब्दानां लोपः परिलक्ष्यते। अतः लुप्तोपमा। अपि च ‘कैलासन्ति महीभृतः’ ‘फणभृतः शेषन्ति’ ‘पाथोधयः क्षीरोदन्ति’ ‘करिणो सुरद्विपन्ति’ ‘पुस्कोकिलाः हंसन्ति’ इति एतेषु सर्वेषु दृष्टान्तेषु परिलक्ष्यते सदृश्यवाचकधर्मस्य तथा शब्दस्य लोपः।अत एवात्र लुप्तोपमा। राजेन्द्रकर्णपूरकाव्ये कुत्रापि पूर्णोपमा कविना न प्रयुक्ता। सर्वत्रैव लुप्तोपमा परिलक्ष्यते।
दीपकम्
(श्लोकसंख्या- ७, ९, ११, १३, १४, २५, ३९, ४३, ५०, ५४, ६३, ६६ )
अप्रस्तुतप्रस्तुतयोर्दीपकन्तु निगद्यते।
अथ कारकमेकं स्याद्अनेकासु क्रियासु चेत्॥३
अर्थात् प्रकृतोऽप्रकृतः- इति पदार्थद्वयस्य मध्ये यदा धर्मेणैकेन सह सम्बन्धो भवति तदा दीपकालंकारः। यथा-
देवाकर्णय नाकिनां पुरि नृणां लोके पुरे भोगिना-
मासन्केचन सन्ति केचन तथा स्थास्यन्ति ये केचन ।
तन्मध्ये न बधूव नास्ति भविता तादृङ् न नीतौ नतौ
कान्तौ कव्यरतौ मतौ रिपुहतौ कीर्तौ च यस्ते समः ॥१इति।
अत्र नीतौ नतौ कान्तौ काव्यरतौ मतौ रिपुहतौ कीर्त्तौ इति कारकपदैः सह बभुव, नास्ति, भविता इति क्रियानां सम्बन्धादत्र कारकदीपकं तथा क्रीयादीपकञ्च।
उत्प्रेक्षा
(श्लोकसंख्या- १६, २५, ३३, ४२, ६३, ७१ )
‘भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना’२ अर्थादुपमेये उपमानस्य सम्भावनार्थादेककोटिकसंशयो भवति उत्प्रेक्षालंकारः। इवादिशब्दानां प्रयोगे वाच्योत्प्रेक्षा, अप्रयोगे च प्रतीयमानोत्प्रेक्षा। यथा-
अङ्के केरलसुन्दरीकचभरश्यामं कलङ्कं वाहन्
मिथ्यारोहति पूर्वपर्वतशिखां मुग्धस्तमीबान्धवः ।
यत्तापिच्छतरूच्छदच्छवि तमो लुम्पन्ति लिम्पन्ति च
प्रालेयैरिव पारदैरिव जगत्कोशं भवत्कीर्तयः ॥३इति।
अत्र राज्ञःकीर्त्तेर्विस्तारो भवति उपमेयः; पारदतुल्यान्धकारस्य लेपनं भवति उअपमानम्। कविनात्र उपमेये उपमानस्य एककोटिकसंशयो वर्णितः। अत उत्प्रेक्षा।
निदर्शना
(श्लोकसंख्या-१, ५९, ६३ )
सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित्।
यत्र विम्बानुविम्बत्वं बोधयेत् सा निदर्शना॥१
यत्र पदार्थद्वयस्य मध्ये सम्बन्धो वधितेऽअवाधिते वा सति तयोः सादृश्यं तात्पर्येण प्रकाशितं भवति तत्र निदर्शना। यथा-
बद्धस्पर्धः क्षितिधरसुताभ्रूलतबक्रतयां
भूयाद् भूत्यै तव हरशिरः शेखरो रोहिणीशः ।
यं निष्पीड्य स्तनमुखनखोल्लेखरेखासु देव्याः
सम्भोगान्ते वितरति सुधास्यन्दमर्धेन्दुमौलिः ॥२इति।
अत्र चन्द्रस्य वक्रतायाः पार्वत्या भ्रूलताया वक्रतया सह तुलना कृता। यद्यपि चेतनाचेतनयोर्मध्ये सन्बन्धोऽसम्भवस्तथापि सन्बन्धस्यास्य कल्पना कविना कृता। अत्र सादृश्यं तात्पर्येण गृहीतम्। तद्भवति प्रथमाया द्वितीयाया वा चन्द्रो यथा वक्रो भवति तथैव वक्रतास्ति पार्वत्याः भ्रूलताद्वये। अतोऽत्र निदर्शनालंकारः।
परिणामालंकारः
(श्लोकसंख्या-५, १० )
विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि।
परिणामो भवेत्तुल्याधिकरणो द्विधा॥१
अलंकारेऽस्मिन् उपमेयोपमानयोरभेदारोपो भवति। आरोपोऽयं प्रकृतार्थस्योपयोगी। तुल्यातुल्याधिकरणभेदेऽलंकारोऽयं द्विविधः। यथा-
आनन्दं मुचुकन्दकन्दलि भज स्वस्थसि वासन्तिके
कल्याणं तव मल्लिके कुशलिनी जातासि हे मालति ।
अद्यैतद्यैशसि श्रुतिप्रणयितां याते न कुर्वन्ति वः
कर्णोत्तं सरसान्नवीनकलिकाभङ्गं कुरङ्गीदृशः ॥२
अत्र रजयशसः कर्णभूषणरूपेण परिणामः परिलक्ष्यते। अत्र परिणामोऽर्थादभेदारोपोऽयं प्रकृतार्थस्योपयोगी। अतः परिणामालंकारः।
तद्गुणालंकारः
(श्लोकसंख्या-२, ४, २४, २७ )
‘तद्गुणः स्वगुणत्यागादत्युत्कृष्टगुणग्रहः’३। यत्र वस्तुना स्वगुणस्य परित्यागं कृत्वा समीपवर्तिनो वस्तुनो गुणग्रहणं कृतं तत्र तद्गुणालंकारः। यथा-
व्याप्तव्योमलते मृगाङ्कधवले निर्धौतदिङ्मण्डले
देव त्वद्यशसि प्रशान्ततमसि प्रौढे जगत्प्रेयसि ।
कैलासन्ति महीभृतः फणभृतः शेषन्ति पाथोधयः
क्षीरोदन्ति सुरद्विपन्ति करिणो हंसन्ति पुस्कोकिलाः ॥१
अत्र अन्तिमचरणद्वये महीभृदादिवस्तूनि स्वीयगुणं त्यक्त्वा कैलासादीनां गुणग्रहणं कुर्वन्ति। अतो दृष्टान्तोऽयं तद्गुणालंकारस्य लक्षणान्वितः।
सन्देहः
(श्लोकसंखा- ७, ४९, ६८ )
‘सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः’२ अर्थात् कविसमाजे प्रसिद्धसादृश्यकारणादुपमेये उपमानस्य यदि संशयो भवति तर्हि सन्देहालंकारो भवति। यथा-
राकेन्दोरुदयः किमेष किमयं गौरीगुरुर्वा गिरिः
क्षीरोदः किमयं किमेष पुरजिल्लीलाविलासोरगः।
किं मन्थाद्रिरयं सुधाजलनिधेर्धौतस्तरङ्गैरिति
त्वत्कीर्तौ वसुधापुरन्दर सदा संदेहिनो देहिनः ॥३इति।
अत्र राज्ञः कीर्त्तौ चन्द्रोदयो, हिमालयः, क्षीरसागरः, श्वेतसर्पोऽमृतसागरस्य तरङ्गरित्यादीनां संशयः परिलक्ष्यते। संशयोऽयं कविप्रतिभोत्थितः। अतः सन्देहालंकारः।
अर्थान्तरन्यासः
(श्लोकसंख्या-१९, २२, २४ )
सामान्यं वा विशेषेण विशेषस्तेन वा यदि।
कार्यञ्च कारणेनेदं कार्येण वा समर्थ्यते।
साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः॥४
अर्थाद् विशेषेण सामान्यस्य, सामान्येन वा विशेषस्य; कार्येण कारणस्य, कारणेन वा कार्यस्य समर्थनेऽर्थान्तरन्यासो नामालंकारो भवति। यथा-
शेष क्लेशमशेषमुत्सृज भज त्वं कुर्म कर्म स्वकं
स्वैरं खेलत सिन्धुसैकतलताकुञ्जेषु दिक्कुञ्जराः ।
अप्येतां सकुलाचलां सनगरां साम्भोनिधिं सापगां
सद्वीपां च भुवं बिभर्ति हि भुजःश्रीहर्षपृथ्वीभुजः ॥१इति।
अत्र शेषनागं, कच्छपावतारं तथा दिक्षु गजान् प्रति स्वस्वकार्याणि त्यक्त्वा विश्रामग्रहणस्य कथा व्यक्ता। कार्यस्यास्य कारणरूपेण उच्यते- ‘श्रीहर्षेण समग्रपृथिव्या भारग्रहणं कृतम्’। अतोऽत्र कारणेन कार्यस्य समर्थनेऽर्थान्तरन्यासोऽलंकारः।
भ्रान्तिमान्
(श्लोकसंख्या- ३३, ६२ )
‘साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः’२ अर्थात् सादृश्यवशतः यद्वस्तु न यत्, तद् वस्तु यदि तद्रूपेण गृहितं भवति तर्हि तत् कवित्वमयवर्णनमेव भ्रान्तिमान्। यथा-
कर्पूरैरिव पारदैरिव सुधास्यन्दैरिवाप्लाविते
जाते हन्त दिवापि देव कुकुभां गर्भे भवत्कीर्त्तिभिः ।
धृत्वाङ्ग कवचं निवध्य शरधिं कृत्वा पुरो माधवं
कामः कैरवबान्धवोदयधिया धन्वन्धनुर्धावति ॥इति।३
अत्र राज्ञो यशसो विस्तारात् शुभ्रवर्णयुक्ते दिक्समूहे कामदेवेन चन्द्रोदयस्य भ्रान्तिर्जाता। अतो भिन्नवस्तुरूपेण भ्रान्तिकारणादत्र भ्रान्तिमान्।
प्रतिवस्तूपमा
(श्लोकसंख्या- ३०, ३१, ६६ )
प्रतिवस्तूपमा सा स्याद् वाक्ययोर्गम्यसाम्ययोः।
एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक्॥१
वाक्यद्वयस्य परस्परसादृश्यं यदि साक्षाद्रूपेण न प्रतिपादितं न भूत्वा तात्पर्येण केवलं प्रतियमानं भवति, अपि च ईदृशस्य वाक्यद्वयस्य साधारणधर्मो भिन्नरूपेण वर्णितो भवति तर्हि प्रतिवस्तूपमालंकारो भवति। यथा-
कूर्मे धैर्यं शिथिलय धृतिं मुञ्च शेषस्य शेषा-
माशामाशाकरिषु वसुधे देवि मा मा दधीथाः ।
शक्तः सप्ताम्बुनिधिपरिखामेखलामप्ययं त्वां
वोढुं मौर्वीकिणपरिचितो भीपतेरस्य बाहुः ॥२इति।
अत्र धैर्यं, धृतिम्, आशा इति शब्दत्रयेन धैर्यरूप अर्थरूप अर्थ एव प्रकाशितः। पुनरुक्तिदोषनिवारणार्थमत्र कविना भिन्नशव्देनैकार्थ एव प्रकाशितः। अतोऽत्र प्रतिवस्तूपमा।
विशेषोक्तिः
(श्लोकसंख्या- २४, ५० )
‘सति हेतौ फलाभावो विशेषोक्तिः’३ अर्थात् कारणमस्ति, कार्यन्तु नास्ति- ईदृशे बोधे विशेषोक्त्यलंकारः। यथा-
सोल्लासा अपि सोद्दमा अपि घनोत्कण्ठा अपि क्वापि नो
यान्ति श्यामनिशान्तरेऽपि रमनोपान्तं कुरङ्गीदृशः ।
सद्यत्वद्यशसा हि कुञ्जररदच्छेदच्छविच्छादिना
नीतं कान्तपुरंध्रिकुन्तलभरश्यामं विरामं तमः ॥१इति।
अत्र उल्लास उद्यम उत्कण्ठा इति कारणेषु सत्सु अपि प्रियमिलनरूपकार्यं नास्ति। अतोऽत्र विशेषिक्तिः।
विभावना
(श्लोकसंख्या- ४१, ५०, ५३ )
‘विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते’२। कारणं नास्ति कार्यं त्वस्ति- इति भावस्य बोधे विभावनालंकारो भवति। यथा-
नो चैत्रः सहकारकुङ्मलकुलैः क्लृप्तं न तत्कार्मुकं
नामी क्रूरशिलीमुखाः शितमुखा नो कोकिलापञ्चमः।
नैवोद्दामकरः शशी न मकरः केतुस्थितो नो रति-
स्तत्रापि त्वमहो समस्तरमणीमानव्यधो मन्मथः ॥३इति।
अत्र कारणानामभावेषु सत्स्वपि कामोद्दीपनरूपकार्यं संघटितम्। अतो विभावना।
समासोक्तिः
(श्लोकसंख्या- ५२, ६४ )
समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः।
व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः॥१
समकार्यस्य, समलिङ्गस्य, समविशेषणस्य च प्रयोगेन यदि प्रकृतपदार्थेऽप्रकृतपदार्थस्य व्यवहारारोपोऽर्थादवस्थारोपो भवति तर्हि समासोक्तिरिति अलंकारो भवति। यथा-
यातं रामविरामविक्लवतया द्युष्यन्तविश्रान्तिजः
संतापो विगतो (विलीनमखिलं दुःखं नलाभावजम्) ।
किं चान्यत्त्वयि देव बिभ्रति महासाम्राज्यलक्षीमिमां
शान्तः शान्तनवोऽपि कोऽपि विपुलाभोगो वियोगो भुवः ॥२इति।
अत्र पृथिवी-श्रीहर्षयोरुपरि नायिकानायकयोर्व्यवहारस्यारोपात् समासोक्तिरिति अलंकारः।
स्वभावोक्तिः
(श्लोकसंख्या- ६५ )
‘स्वभावोक्तिर्दुरुहार्थस्वक्रियारूपवर्णनम्’३ अर्थात् (साधारणजनैः) न, केवलैः कविभिरनुधावनयोग्या शिशुः पशुः विहग इत्यादीनामकृत्रिमवर्णना एव स्वभावोक्तिः। यथा-
किंचित्कुड्मलितैकलोचनपुटं कण्डूं मुहुर्गण्डयो-
र्झम्पाकम्पितकुड्मले कुरबके निर्वाप्य वन्यद्विपैः ।
देव स्मेरसरोजसङ्गसुरभि स्वैरं भवद्वैरिणां
पीतं प्राङ्गणवापिकामकरिणीपीतावशेषं पयः ॥४इति।
अत्र हस्तिनां स्वाभाविकक्रियाया वर्णनं कविना पुङ्खानुपुङ्खेन कृतम्। अतोऽत्र स्वभावोक्तिः।
परिकरालंकारः
(श्लोकसंख्या- ६ )
‘उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः’१ अर्थात् प्रकृतार्थस्य परिपुष्टिसाधनार्थं बहुविशेषणैर्वर्णनीयविषयस्योपस्थापनं भवति परिकरालंकारः। यथा-
चौडी चूडाधरणहरणः कीर्णकर्णावतंसः
कर्णाटीनां मुषितमुरली केरली हारलीलः ।
कुर्वन्नुर्वीतिलक तिलकोत्सृष्ट लाटीललाटं
जीयादेकस्तव नवयशः स्वर्णशाण कृपाणः ॥२इति।
अत्र राज्ञः खड्गस्य विशेषणं शत्रुनारीणां वैधव्यस्य सुचकम्। अतोऽत्र साभिप्रायविशेषणस्य प्रयोगात् परिकरालंकारः।
पर्यायोक्तिः
(श्लोकसंख्या- ६)
‘पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते’३। वाक्यस्य वैचित्र्याद् वक्तव्यविषयो यदा वाच्यस्य इव स्पष्टरूपेण प्रकाशितो भवति तदा पर्यायोक्तालंकारः। यथा-
चौडी चूडाधरणहरणः कीर्णकर्णावतंसः
कर्णाटीनां मुषितमुरली केरली हारलीलः ।
कुर्वन्नुर्वीतिलक तिलकोत्सृष्ट लाटीललाटं
जीयादेकस्तव नवयशः स्वर्णशाण कृपाणः ॥१इति।
अत्र वैधव्यस्य सूचनारूपो व्यङ्ग्यार्थोऽभिधया प्रकाशितः। अतोऽत्र पर्यायोक्तालंकारः।
समुच्चयः
(श्लोकसंख्या- ७)
समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके॥
खलेकपोतिकान्यायात्तत्करः स्यात् परोऽपि चेत्।
गुणौ क्रिये वा युगपत् स्यातां यद्वा गुणक्रिये॥२
अर्थात् यथा अन्नप्रदाने सति बृद्धयुवशिह्वादिकपोतगणः पात्रं निकषागच्छति, तथैव कार्यस्यैकस्य कारणे सत्यपि सम्पादकरूपेण अन्यान्यकारणानामुल्लेखो भवति समुच्चयः। यथा-
शान्तै दर्पवतां जयाय जगतां संपत्तये याचतां
सम्मानाय सतां हिताय महतां तापाय पृथ्वीभृताम् ।
सोल्लासेन सकौतुकेन शमितध्यानेन दुरीकृत-
स्वाध्यायेन समाप्तसर्वतपसा त्वं वेधसा निर्मितः ॥३इति।
अत्र ‘राज्ञो निर्माणरूप’ कार्यस्य शत्रुशमनादिबहुप्रयोजनानामुल्लेखे समुच्चयः।
आक्षेपः
(श्लोकसंख्या- ८, ३०, ३१, ६४, ६९ )
वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये।
निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा॥१
अर्थाद् वक्तव्यविषयस्य विशेषरूपेण प्रतीतिकरणार्थं विधिर्यदि आपातनिषेधस्य इव प्रतीता भवति अनभिलषितं वा कार्यमापातत ईप्सितरूपेण प्रतितं भवति तर्हि आक्षेपालंकारो भवति। यथा-
किं वान्यत्वसुधापुरंदर पुरस्त्वत्पौरुषस्य क्वचि-
न्नर्हत्यस्खलितक्रमोऽपि गगने तैविक्रमो विक्रमः ।।२इति।
अत्र पराक्रमस्य विशेषज्ञानार्थं ‘किं वान्यत्’ इति पदप्रयोगे आक्षेपालंकारः।
अर्थापत्तिः
(श्लोकसंख्या- ८, २६ )
‘दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते’३। मूषिकेन दण्डभक्षणं कृतमिति कथिते सति दण्डे संलग्ना पूपिकापि तेन भक्षिता इति बोधो भवति। तथैव पदार्थस्यैकस्य ज्ञानाद् यदि अपरपदार्थस्य ज्ञानं सहजेन बोध्यते, स दण्डपूपिकान्यायः। अनेन न्यायेन यदि अर्थज्ञानं भवति तर्हि अर्थापत्त्यलंकारः। यथा-
किं वान्यत्वसुधापुरंदर पुरस्त्वत्पौरुषस्य क्वचि-
न्नर्हत्यस्खलितक्रमोऽपि गगने तैविक्रमो विक्रमः ।।४इति।
अत्र ‘यदा तव समीपे इन्दस्य पराक्रमोऽपि न पाराक्रमः तर्हि अपरद्वितीयस्य कथा किं भवेत्’ अनेन वाक्येन दण्डपूपिकान्यायाद् सहजेनार्थज्ञानं भवति। अतः अर्थापत्त्यलंकारः।
यथासंख्या
(श्लोकसंख्या- १६ )
‘यथासंख्यमनुद्देश उद्दिष्टानां क्रमेण यत्’१ अर्थात् पूर्ववर्तिपदार्थैः सह परवर्तिपदार्थानां क्रमान्वयेन सम्बन्धो भवति यथासंख्या। यथा-
अङ्के केरलसुन्दरीकचभरश्यामं कलङ्कं वाहन्
मिथ्यारोहति पूर्वपर्वतशिखां मुग्धस्तमीबान्धवः ।
यत्तापिच्छतरूच्छदच्छवि तमो लुम्पन्ति लिम्पन्ति च
प्रालेयैरिव पारदैरिव जगत्कोशं भवत्कीर्तयः ॥२ इति।
अत्र ‘प्रालेयैरिव’ ‘पारदैरिव’ इत्यादिभिः सह ‘लुम्पन्ति’ ‘लिम्पन्ति’ इत्यादीनां क्रमिकसम्बन्धः। अतो यथासंख्यालंकारः।
विरोधाभासः
(श्लोकसंख्या- १७, ५८ )
‘जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः’।
क्रिया क्रियाद्रव्याभ्यां यद् द्रव्यं द्रव्येण वा मिथः॥
विरुद्धमिव भासेन विरोधोऽसौ दशाकृतिः’।३
अर्थाद् जातिद्रव्यगुणक्रियादिभिः सह जातेः; गुणक्रियाजातिभिर्वा सह गुणस्य; क्रियाद्रव्याभ्यां सह वा क्रियाया; द्रव्येन सह द्रव्यस्य वा यदि आपातविरोधो नाम विरोधाभासः। यथा-
तस्थौ कम्पतरङ्गितस्तनतटं वाष्पाम्बुधौताधरं
शोकाक्रान्तकपोलकीलितकरं द्यां मुञ्जराजे गते ।
संजाते त्वयि हाहिहारवलयक्वाणं क्वणत्कङ्कणं
चञ्चत्काञ्चनकाञ्चि सा भगवती ननर्ति वाग्देवता ॥१इति।
अत्र ‘रतिः’, ‘शोकः’ इति विरोधिस्थायिभावद्वयस्य एकत्रावस्थानस्य हेतो विरोधः। तात्पर्येणास्य विरोधस्यावसानम्। पूर्वेद्युः मुञ्जराजस्य विरहे शोकः; परवर्तिकाले हर्षागमने रतिभावः। अतः आपातविरोधे विरोधाभासः।
हेतुः
(श्लोकसंख्या- ३५)
‘अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह’२ अर्थात् कार्येण सह कारणस्य यदि अभेदारोपो भवति तर्हि हेत्वालंकारः। यथा-
राकाकान्तकलाङ्कुराङ्कितजरत्किंशो निशीथक्षणे
गायन्तीषु सुराङ्गनासु भवतः कैलासकुञ्जे यशः ।
निष्पीड्य प्रियमौलिचन्द्रकलिकां कन्दर्पकेलिक्लम-
स्वापं दुरयितुं दृशोर्गिरिजया दत्ताः सुधाविन्दवः ॥३इति।
अत्र पार्वत्या गीतश्रवणस्य हेतुः सचेतनता, न शयनम्। इदं निद्रादूरीकरणं तया कृतं चन्द्रनिष्पीडनेन प्राप्तो योऽमृतविन्दुः, तेन। अत्र अनयोः कार्यकारण्योरभेदारोपःसुष्पष्टः। अतो हेत्वालंकारः।
स्मरणालंकारः
(श्लोकसंख्या- ३६ )
‘सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते१’। सदृशवस्तुनो दर्शने पूर्वाभूतविषयस्य यदि स्मरणं भवति तर्हि स्मरणालंकारः। यथा-
किं तान्तिः किमनिर्वृतिः किमधृतिर्वाग्देवि मुञ्जे गते
किं शून्यासि किमाकुलासि किमितिक्लान्तासि कोऽयं क्रमः ।
एवं विद्धि तमेव सास्य हि मतिः सा विश्रुतिः सा द्युतिः
स त्यागः स नयः स सुक्तिषु रसस्ताः सम्मताः संपदः ॥२इति।
अत्र हर्षे मुञ्जसदृशगुणानां दर्शने मुञ्जस्य गुणानां स्मरणं भवति। अतः स्मरणालंकारः।
उदात्तालंकारः
(श्लोकसंख्या- ४२)
‘लोकातिशयसम्पत्तिर्वर्णनोदात्तमुच्यते ।
यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत्’॥३
अर्थात् कस्यचिद् वर्णनीयपदार्थस्य अलौकिकसमृद्धिर्यदि वर्णिता भवेत् कस्यचिद् वा महात्मनो माहात्म्यप्रकाशकस्य चरित्रस्य वर्णनं वर्णनीयपदार्थस्योपकारि भवेत्तर्हि उदात्तालंकारो भवति। यथा-
तन्मूर्तं भुवने मुहूर्तंममृतं मन्ये भृशं वासरं
सारं वेदसि तदेव सैव च गुणैरायामिनी यामिनी ।
श्रीवासो यशसां पदं सुमनसामप्यास्पदं संपदां
यत्रागच्छति गोचरं नयनयोः काश्मीरमीनध्वजः ॥१इति।
अत्र श्रीहर्षस्य समृद्ध्यतिशयस्य वर्णनादुदात्तालंकारः।
उल्लेखालंकारः
(श्लोकसंख्या- ४२)
क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित्।
एकस्यानेकधोल्लेखो यः स उल्लेख इष्यते॥२
यदि कस्यचित् पदार्थस्य भिन्न-भिन्न-गुणानुसारेण बहुरूपेण वर्णना भवति तर्हि उल्लेखालंकारः। यथा-
तन्मूर्तं भुवने मुहूर्तंममृतं मन्ये भृशं वासरं
सारं वेदसि तदेव सैव च गुणैरायामिनी यामिनी ।
श्रीवासो यशसां पदं सुमनसामप्यास्पदं संपदां
यत्रागच्छति गोचरं नयनयोः काश्मीरमीनध्वजः ॥३इति।
अत्र काश्मीरमीनध्वजस्य श्रीहर्षस्य श्रीनिवासादिबहुरूपैः वर्णनादुल्लेखालंकारः।
अधिकालंकारः
(श्लोकसंख्या- ४६, ५० )
‘आश्रयश्रयिणोरेकस्याधिक्येऽधिकमुच्यते’१ अर्थाद् यदि आधाराधेययोर्मध्ये एकस्याधिक्यं वर्णितं भवति तर्हि अधिकालंकारः। यथा-
एवं त्वामहमर्थये विरमितस्वाध्यायकौतूहलो
ब्रह्माण्डोदरमम्बुजासन पुनर्यत्नेन विस्तारय ।
देवस्यास्य यतो न माति विततं राकेन्दुरोचिर्लता-
लोलोन्मीलितकैरवोदरदलद्धौतावदातं यशः ॥२इति।
अत्र बह्माण्डस्य आधाररूपो ब्रह्मा महान्। परन्तु बह्मनोऽपेक्षया आधेयस्य राजयशस्य महत्तत्वं वृहत्तत्वं विवर्णितम्। अतोऽधिकालंकारः।
प्रतीपालंकारः
(श्लोकसंख्या- ६६, ६८, ७४ )
प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम्।
निष्फलत्वाभिधानं वा प्रतीतमिति कथ्यते॥३
अर्थाद् उपमेयरूपेण प्रसिद्धोपमानस्य कल्पना यदि परिलक्ष्यते; उपमानस्य यदि वा निष्फलता परिलक्ष्यते तर्हि प्रतीपालंकारः। यथा-
कूर्मे धैर्यं शिथिलय धृतिं मुञ्च शेषस्य शेषा-
माशामाशाकरिषु वसुधे देवि मा मा दधीथाः ।
शक्तः सप्ताम्बुनिधिपरिखामेखलामप्ययं त्वां
वोढुं मौर्वीकिणपरिचितो भीपतेरस्य बाहुः ॥४इति।
अत्र कूर्मः शेषनागो दिग्गजश्च पृथिव्याः धारणकारयोः राजबाह्वोः उपमानानि। अत्र तेषां व्यर्थता प्रतिपादिता। अतः प्रतीपालंकारः।
विशेषालंकारः
(श्लोकसंख्या- ६७)
यदाधेयमनाधारमेकं चानेकगोचरम्।
किञ्चित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा॥
कार्यस्य करणं दैवाद्विशेषस्त्रिविधस्ततः।१
यत्र आधारं विना आधेयस्य वैचित्र्यवर्णनं, एकवस्तुनो वा अनेकस्थानेषु समसमये विराजमानताया वर्णनं, एककार्यकाले वा दैवादन्यस्य अशक्यकार्यस्यापि सम्पादको भवति तर्हि तत्र विशेषालंकारः। यथा-
कान्तारेषु च काननेषु च सरित्तीरेषु च क्ष्माभृता-
मुत्सङ्गेषु च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च ।
भ्रान्ताः केतकगर्भपल्लवरुचः श्रान्ता इव क्ष्मापते
कान्ते नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ॥२इति।
अत्र कीर्त्तेरनेकस्थानेषु एकस्मिन् समये विराजमानताया वर्णनं कविना कृतम्। अतो विशेषालंकारः।
ग्रन्थसूची
१ अशोकनाथशास्त्रिकृतः ‘ रस ओ भाव’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९९८ तमे खिस्ताव्दे प्रकाशितः।
२ आनन्दवर्धनकृतः ‘ध्वन्यालोक(प्रथमोद्योत)’ इत्याख्यः ग्रन्थः सत्यनारायण-चक्रवर्तिसम्पादितः ‘संकृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९९८ तमे खिस्ताव्दे प्रकाशितः।
३ ‘उपनिषद्ग्रथेवली’ इत्याख्यः ग्रन्थः स्वामिगम्भीरानन्दसम्पादितः ‘ उद्वोधन कार्यालय’ इत्याख्यसंस्थानतः कालिकातायां १९६२ तमे खिस्ताव्दे प्रकाशितः। सप्तमसंस्करणम्।
४ ऋग्वेदः रामगोविन्दत्रिवेदीसम्पादितः ‘चौखाम्वा विद्याभवन’ इत्याख्यसंस्थानतः वाराणस्यां २०११ तमे खिस्ताव्दे प्रकाशितः।
५ कलहणकृतः ‘राजतरङ्गिणी ’ इत्याख्यः ग्रन्थः पञ्चानन-तर्करत्नेन सम्पादितः ‘कलिकाता विश्वविद्यालयः ’ इत्याख्यसंस्थानतः कलिकातायां १३१७ तमे खिस्ताव्दे प्रकाशितः।
६ कालिदासकृतः ‘अभिज्ञानशकुन्तलम्’ इत्याख्यः ग्रन्थः सत्यनारायण-चक्रवर्तिमहोदयेन सम्पादितः ‘ संकृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां २०१० तमे खिस्ताव्दे प्रकाशितः। सप्तमसंस्करणम्।
७ ‘काव्यमाला’ इति संकलनग्रन्थः दुर्गाप्रसादमहोदयेन काशीनाथमहोदयेन च सम्पादितः ‘ निर्णय-गागर-प्रेस’ इत्याख्यसंस्थानतः बोम्बाई इति नगरे १९३२ तमे खिस्ताव्दे प्रकाशितः।
८ गङ्गादासकृतः ‘छन्दोमञ्जरी’ इत्याख्यः ग्रन्थः श्रीरामपद-भट्टाचार्येण सम्पादितः ‘संकृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९९४तमे खिस्ताव्दे प्रकाशितः।
९ जगदीशचन्द्रमिश्रकृतः ‘अलंकारशास्त्रस्येतिहासः’ इत्याख्यः ग्रन्थः ‘चौखाम्बा-सुरभारती-प्रकाशन’ इत्याख्यसंस्थानतः वाराणस्यां २००९ तमे खिस्ताव्दे प्रकाशितः।
१० जयश्री-चट्टोपाध्यायकृतः ‘ अलंकारशास्त्रेर समृद्ध इतिहास’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां २००६तमे खिस्ताव्दे प्रकाशितः।
११ दण्डिकृतः ‘काव्यादर्शः ’ इत्याख्यः ग्रन्थः अनिल-वसुना सम्पादितः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां २००२ तमे खिस्ताव्दे प्रकाशितः।
१२ द्विजेन्द्रनाथशास्त्रिकृतः ‘संस्कृतसाहित्यविमर्शः’ इत्याख्यः ग्रन्थः ‘भारतीप्रतिष्ठान’ इत्याख्यसंस्थानतः महाराष्ट्रनगरे १९५६ तमे खिस्ताव्दे प्रकाशितः।
१३ धीरेन्द्रनाथबन्धोपाध्यायकृतः ‘संस्कृतसाहित्येर इतिहास’ इत्याख्यः ग्रन्थः ‘पश्चिमवङ्ग राज्य पुस्तक पर्षद्’ इत्याख्यसंस्थानतः कलिकातायां २००० तमे खिस्ताव्दे प्रकाशितः। द्वितीयसंस्करणम्।
१४ धीरेन्द्रनाथबन्धोपाध्यायकृतः ‘संस्कृत अलंकारशास्त्र तत्त्व ओ समीक्षा’ इत्याख्यः ग्रन्थः ‘पश्चिमवङ्ग राज्य पुस्तक पर्षद्’ इत्याख्यसंस्थानतः कलिकातायां २०१२ तमे खिस्ताव्दे प्रकाशितः।
१५ भरतमुनिकृतः ‘ नाट्यशास्त्रम्’ इत्याख्यः ग्रन्थः पुष्पेन्द्र-कुमारमहोदयेन सम्पादितः ‘निउ-भारतीय-वुक्-कर्परेशन्’ इत्याख्यसंस्थानतः दिल्ली इति नगर्यां २०१०तमे खिस्ताव्दे प्रकाशितः।
१६ भामहकृतः ‘काव्यालंकारः’ इत्याख्यः ग्रन्थः वटुनाथ-शर्मणा बलदेव-उपाध्यायेन च सम्पादितः ‘चौखम्बा विद्याभवन’ इत्याख्यसंस्थानतः वाराणस्यां १९८५ तमे खिस्ताव्दे प्रकाशितः।
१७ भोजकृतः ‘ सरस्वतीकण्ठाभरणम्’ इत्याख्यः ग्रन्थः केदारनाथेन दुर्गाप्रसादेन च सम्पादितः ‘ निर्णय-सागर-प्रेस’ इत्याख्यसंस्थानतः मुम्बाई इति स्थाने १८९४ तमे खिस्ताव्दे प्रकाशितः।
१८ मम्मटाचार्यकृतः ‘काव्यप्रकाशः’ इत्याख्यः ग्रन्थः रामसागर-त्रिपाठीमहोदयेन सम्पादितः ‘मोतीलाल-बनारसीदासः’ इत्याख्यसंस्थानतः वाराणस्यां १६८३ तमे खिस्ताव्दे प्रकाशितः।
१९ मम्मटाचार्यकृतः ‘काव्यप्रकाश(नवम ओ दशम)’ इत्याख्यः ग्रन्थः विजया-गोस्वामिसम्पादितः ‘सदेश’ इत्याख्यसंस्थानतः कलिकातायां २००६ तमे खिस्ताव्दे प्रकाशितः।
२० मंखकृतः ‘ शीकण्ठचरितम्’ इत्याख्यः ग्रन्थः ‘काव्यमाला’ इति संकलने अन्तर्भूक्तः दुर्गाप्रसादमहोदयेन काशीनाथमहोदयेन च सम्पादितः ‘निर्णय-सागर-प्रेस’ इत्याख्यसंस्थानतः मुम्बाई इति नगरे १९३२ तमे खिस्ताव्दे प्रकाशितः।
२१ महाकविशम्भुकृतः ‘राजेन्द्रकर्णपूरः’ इत्याख्यः ग्रन्थः ड. देवकुमारीसम्पादितः ‘भारतीय-विद्या-प्रकाशन’ इत्याख्यसंस्थानतः वाराणस्यां १९७३ तमे खिस्ताव्दे प्रकाशितः।
२२ रमारञ्जन-मुख्योपाध्यायकृतः ‘रससमीक्षा’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९६१तमे खिस्ताव्दे प्रकाशितः।
२३ वामनकृतः ‘काव्यालंकारसूत्रवृत्तिः’ इत्याख्यः ग्रन्थः अनिल-चन्द्र-वसुना सम्पादितः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९७७ तमे खिस्ताव्दे प्रकाशितः।
२४ विद्यानाथकृतः ‘प्रतापरुद्रीयम् ’ इत्याख्यः ग्रन्थः के. पि. त्रिवेदी महोदयेन सम्पादितः बोम्बाई इत्याख्यस्थानतः १९०९ तमे खिस्ताव्दे प्रकाशितः।
२५ विष्णुपद-भट्टाचार्यकृतः ‘प्राचीनभारतीय अलंकारशास्त्रेर भूमिका’ इत्याख्यः ग्रन्थः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९५३ तमे खिस्ताव्दे प्रकाशितः।
२६ विष्णुपद-भट्टाचार्यकृतः ‘काव्यमीमांसा’ इत्याख्यः ग्रन्थः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९८२ तमे खिस्ताव्दे प्रकाशितः।
२७ विष्णुपद-भट्टाचार्यकृतः ‘साहित्यमीमांसा’ इत्याख्यः ग्रन्थः ‘विश्वभारती-ग्रन्थन-विभाग’ इत्याख्यसंस्थानतः कलिकातायां १९८२ तमे खिस्ताव्दे प्रकाशितः।
२८ विश्वनाथकृतः ‘साहित्यदर्पणः’ इत्याख्यः ग्रन्थः ड. सत्यव्रतसिंहेन सम्पादितः ‘चौखम्वा विद्याभवन’ इत्याख्यसंस्थानतः वाराणस्यां १९५८ तमे खिस्ताव्दे प्रकाशितः।
२९ विलहणकृतः ‘विक्रमाङ्कदेवचरितम’ इत्याख्यः ग्रन्थः जि. बुलारमहोदयेन सम्पादितः ‘ वि.एस. एस.’ इत्याख्यसंस्थानतः बोम्बाई इति नगर्यां १८७५तमे खिस्ताव्दे प्रकाशितः।
३० ‘विष्णुधर्मोत्तरपुराणम्’इति ग्रन्थः प्रियबाला-साहा इत्येन सम्पादितः ‘इ. मर्लवोरुख ’ इत्याख्यसंस्थानतः लण्डन इति स्थाने २००३ तमे खिस्ताव्दे प्रकाशितः।
३१ श्यामापद-चक्रवर्तिकृतः ‘अलंकारचन्द्रिका’ इत्याख्यः ग्रन्थः सम्पादितः ‘वामा पुस्तकालय’ इत्याख्यसंस्थानतः कलिकातायां २००६तमे खिस्ताव्दे प्रकाशितः। हेमचन्द्रकृतः ‘काव्यानुशासनम् ’ इत्याख्यः ग्रन्थः रसिकलाल-सि.-पारिख-सम्पादितः ‘मुम्बाई ’ इत्याख्यसंस्थानतः १९३८ तमे खिस्ताव्दे प्रकाशितः।
१ काव्यालंकारसूत्रवृत्तिः।अधिकरणम्-१। अध्यायः-१। सूत्रम्-१।
२ तत्रैव।
३ सरस्वतीकण्ठाभरणम्। अध्यायः-१। कारिकासंख्या-२।
४ प्रतापरुद्रीयम्। पृष्ठाङ्कः-४२।
५ काव्यप्रकाशः। प्रथमोल्लासः। पृष्ठाङ्कः-२१।
६ काव्यानुशासनम्। पृष्ठाङ्कः-१४।
७ काव्यानुशासनम्। पृष्ठाङ्कः-१६।
८ कविकण्ठाभरणम्। पृष्ठाङ्कः-३४।
१ काव्यालंकारः। प्रथमाध्यायः। कारिकासंख्या-१३।
२ काव्यालंकारसूत्रवृत्तिः। अधिकरणम्-३। अध्यायः-१। सूत्रम्-१-२।
३ काव्यादर्शः।परिच्छेदः-२। कारिकासंख्या-१।
४ साहित्यदर्पणः।परिच्छेदः-१०। कारिकासंख्या-१। पृष्ठाङ्कः-६६५।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-३। पृष्ठाङ्कः-६६७।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-३। पृष्ठाङ्कः-६६७।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-५१। पृष्ठाङ्कः-५९।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-४। पृष्ठाङ्कः-६६८।
४ राजेन्द्रकर्णपूरः। श्लोकसंख्या-३५। पृष्ठाङ्कः-४६।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-५। पृष्ठाङ्कः-६६९।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६७। पृष्ठाङ्कः-७४।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-८। पृष्ठाङ्कः-६७२।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-५२। पृष्ठाङ्क-६०।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-११। पृष्ठाङ्कः-६७५।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-५७। पृष्ठाङ्कः-७८८।
४ राजेन्द्रकर्णपूरः। श्लोकसंख्या-३४। पृष्ठाङ्कः- ४६।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-५६। पृष्ठाङ्कः-६४।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-४६। पृष्ठाङ्कः-७५६।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१। पृष्ठाङ्कः-१७।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-५२। पृष्ठासंख्या-७६९।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-५१। पृष्ठाङ्कः-६०।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-६२। पृष्ठासंख्या-८०२।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-३२। पृष्ठाङ्कः-४४।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-२८। पृष्ठासंख्या-७१३।
४ राजेन्द्रकर्णपूरः। श्लोकसंख्या-५७। पृष्ठासंख्या-६५।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-१४। पृष्ठासंख्या-६९२।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-४। पृष्ठासंख्या-१९।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-४८। पृष्ठासंख्या-७६०।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-९। पृष्ठासंख्या-२४।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-४०। पृष्ठासंख्या-७३९।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१६। पृष्ठासंख्या-३०।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-५१। पृष्ठासंख्या-७६५।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१। पृष्ठासंख्या-१७।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-३४। पृष्ठासंख्या-७२६।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या- १०। पृष्ठासंख्या-२५।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-९०। पृष्ठासंख्या-८६०।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-४। पृष्ठासंख्या-१९।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-३५। पृष्ठासंख्या-७२८।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६८। पृष्ठासंख्या-७५।
४ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-६१। पृष्ठासंख्या-७९९।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१९। पृष्ठासंख्या-३३।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-३६। पृष्ठासंख्या-७३०।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-३३। पृष्ठासंख्या-४५।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-४९। पृष्ठासंख्या-७६२।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६६। पृष्ठासंख्या-४५।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-६७। पृष्ठासंख्या-८१५।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-२४। पृष्ठासंख्या-३७।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-६६। पृष्ठासंख्या-८२४।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-४१। पृष्ठासंख्या-५१।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-५६। पृष्ठासंख्या-७७७।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६४। पृष्ठासंख्या-७१।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-९२। पृष्ठासंख्या-८६५।
४ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६५। पृष्ठासंख्या-७२।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-५७। पृष्ठासंख्या-७८७।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६। पृष्ठासंख्या-२१।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-६०। पृष्ठासंख्या-७९६।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६। पृष्ठासंख्या-२१।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-८४। पृष्ठासंख्या-८५०।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-७। पृष्ठासंख्या-२२।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-६४। पृष्ठासंख्या-८०९।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-८। पृष्ठासंख्या-२३।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-८३। पृष्ठासंख्या-८४५।
४ राजेन्द्रकर्णपूरः। श्लोकसंख्या-८। पृष्ठासंख्या-२३।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-७९। पृष्ठासंख्या-८३७।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१६। पृष्ठासंख्या-३०।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-६७-६८। पृष्ठासंख्या-८१८।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-१७। पृष्ठासंख्या-३१।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-६३। पृष्ठासंख्या-८०७।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-३५। पृष्ठासंख्या-४६।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-२७। पृष्ठासंख्या-७१३।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-३६। पृष्ठासंख्या-४७।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-९४। पृष्ठासंख्या-८७२।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-४२। पृष्ठासंख्या-५२।
२ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-३७। पृष्ठासंख्या-७३२।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-४२। पृष्ठासंख्या-५२।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-७२। पृष्ठासंख्या-८२८।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-४६। पृष्ठासंख्या-५५।
३ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-८७। पृष्ठासंख्या-८५५।
४ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६६। पृष्ठासंख्या-७३।
१ साहित्यदर्पणः। परिच्छेदः-१०। कारिकासंख्या-७३। पृष्ठासंख्या-८२९।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६७। पृष्ठासंख्या-७४।
Authored by ड: पियूष-कान्ति-पालः
Published by,