संस्कृतसाहित्यस्य गुणविषये चर्चा एकस्य काव्यस्य दृष्टान्तमाध्यमेन
भूमिका
काव्यस्य अलंकाररीत्याद्युपादानानां मध्येऽन्यतमो भवति गुणः। संस्कृतसाहित्यस्य अनेकैरालंकारिकैः शब्दार्थयोरन्यतमधर्मरूपेण गुणालंकारौ स्वीकृतौ। यथा – मम्मटस्य काव्यलक्षणे ‘सगुणौ सालंकारौ’ इति भावोऽभिव्यक्तः। केषाञ्चिद् मते एष गुणः काव्यस्यात्मरूपेण प्रतिष्ठितः। ते च गुणप्रस्थानस्यालंकारिकरूपेण प्रसिद्धाः। गुणप्रस्थानस्य प्रवर्तक आसीदाचार्यो दण्डी। परवर्तिकाले समसामयिककाले वा आचार्येण वामनेन गुणसम्पर्के विस्तृतालोचना कृता। दण्डिना तदीये काव्यादर्शे गुणसम्पर्के कथितम्- ‘इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः’१ अर्थाद् वैदर्भीरीतेः प्राणस्वरूपो भवति गुणः। गुणस्य संख्या तस्य मते दश। गुणसम्पर्के आचर्येण मम्मटेन तदीये काव्यप्रकाशे उक्तम्-
ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः।
उत्कर्षहेतवस्तेस्युरचलस्थितयो गुणाः॥२
अर्थाद् आत्मनः शौर्यादिधर्माणामिव रसस्योत्कर्षहेतुः तथा अचलस्थितिर्भवति गुणः।
गुणसम्पर्के विश्वनाथेन तदीये साहित्यदर्पणग्रन्थे उक्तम्-
रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा।
गुणाः......................................................॥३
अर्थाद् आप्तव्यक्तेः शौर्यादिधर्मानामिव रसस्य मुख्यो भवति गुणः।
वामनेन तु स्पष्टरूपेण गुणलक्षणं प्रदत्तं संस्कृतालंकारशास्त्रे। तस्य काव्यालंकारसूत्रवृत्तिः इति ग्रन्थे तेनोक्तम्- ‘काव्यशोभायाः कर्तारो धर्मा गुणाः’।४
गुणस्वीकारविषये संस्कृतालंकारशास्त्रे मतत्रयं प्राधान्येन परिलक्ष्यते।
प्रथममते गुणानां संख्या दश। मतेऽस्मिन् सन्ति भरतमुनिः, दण्डी इत्यादय आलंकारिकाः। ते च-
श्लेषः प्रसादः समता माधुर्यं सुकुमारता।
अर्थव्यक्तिरुदारत्वमोजः कान्ति-समाधयः॥१
द्वितीयमतस्य प्रवर्तक आसीदाचार्यो वामनः। तस्य मते गुणानां संख्या विंशतिः। तेषु दश शब्दगुणाः, दशार्थगुणाश्च सन्ति। यथा शब्दश्लेषोऽर्थश्लेष इत्यादयः।
तृतीयमतस्य प्रवर्तको भवति आचार्यो भामहः। तस्य मते काव्ये गुणाः त्रयः। ते च माधुर्यमोजः प्रसाद इति। मतस्यास्य समर्थका भवन्ति मम्मट-विश्वनाथादय आलंकारिकाः।
तथापि दशप्रकारगुणस्वीकारस्य जनप्रियता संस्कृतसाहित्ये सर्वजनविदिता। इदानीं दण्डिनः लक्षणानुसारेण राजेन्द्रकर्णपूरकाव्ये प्रयुक्तानां विविधगुणानां स्वरूपालोचना संक्षेपेण कर्तव्या।
कवेः संक्षिप्तः परिचयः
कविना शम्भुना “राजेन्द्रकर्णपूरः” इति स्वीयग्रन्थे आत्मपरिचयप्रसङ्गे किमपि नोक्तम्। अस्य कवेर्नामोल्लेखः परवर्तिकालस्य कवीनां मध्ये केवलेन मंखेन कृतः। मंखमहाभागैर्विरचितस्य श्रीकण्ठचरितस्य एकस्मिन् श्लोके महाकविरूपेण कवेः शम्भोरपि च वैद्यरूपेण तथा शास्त्रविशारदरूपेण शम्भुपुत्रस्य आनन्दस्य नामोल्लेखोऽस्ति। श्रीकण्ठचरितस्य निर्दिष्टः श्लोको भवति -
अशेषभिषगग्रण्यं शरण्यं शास्त्रपद्धतेः।
ववन्देऽथ तमानन्दं सुतं शम्भुमहाकवेः॥२
अर्थात् सर्वेषां वैद्यानामग्रगण्यं शास्त्रज्ञस्य शम्भुरिति महाकवेरागतं आनन्दनामकं पुत्रं नमस्करोमि। अतोऽस्माद् ज्ञायते- कविः शम्भुरासीद् वैद्यज्ञस्तथा शास्त्राणां सेवकः। तस्य पुत्रस्य नामानन्दः। स आसीत् प्रख्यातो वेदज्ञः,परन्तु स कविरूपेण परिचितः। तस्य कानिचिद् मुक्तकपद्यानि वल्लभदेवस्य “सुभाषितावली” इत्याख्ये ग्रन्थे उद्धृतानि।
कवेर्मंखस्य समयकाल आसीत् हर्षदेवस्य परवर्ती। यतो हि मंखस्य भ्राता अलंकार आसीत् काश्मीरराजस्य सुस्सलस्य तथा जयसिंहस्य मन्त्री।१ अपि च अलंकारस्य गृहे प्रायशः साहित्यकाराणामागमनं तथालोचनं परिलक्ष्यते। अस्या आलोचनासभाया विशदरूपेण वर्णनं परिलक्ष्यते “श्रीकण्ठचरितमि”त्यस्य ग्रन्थस्य पञ्चविंशतितमसर्गे। एतत्परवर्तिसमये येषां विद्वज्जनानां सम्मुखे कविः मंखः स्वीयमहाकाव्यं पठितवान्,तेषां विद्वज्जनानां मध्ये अन्यतम आसीत् कवेः शम्भोरात्मज आनन्दः। अतो बोध्यते जयसिंहस्य समयकाले प्रख्यात आसीत् शम्भुपुत्र आनन्दः। अतः स्पष्टरूपेण प्रतीयते मंखस्य पुर्ववर्तिशतकस्य कविरासीत् शम्भुः।
“राजेन्द्रकर्णपूरः” इति काव्ये काश्मीरराजस्य श्रीहर्षस्य स्तुतिमुलकं विवर्णनं परिलक्ष्यते। अतः सारल्येणानुमीयते कविः शम्भुरासीत् काश्मीरराजस्य हर्षदेवस्य अर्थात् श्रीहर्षस्य सभाकविः।
श्रीकण्ठचरितस्य पञ्चविंशतितमसर्गे महाकविरूपेण कवेः शम्भोरुल्लेखादनुमीयते यत्- तेन महाकाव्यमपि विरचितम्। तत्तु कालगर्भे निमज्जितम्।
कवेः शम्भोः कालः
कवेः शम्भोर्जीवत्कालो भवति एकादशशतकस्योत्तरार्धः। यतो हि काश्मीरराजश्रीहर्षस्य स्तुतिमूलकं काव्यं भवति राजेन्द्रकर्णपूरः। अस्य काश्मीरराजस्य श्रीहर्षस्यार्थात् हर्षदेवस्य राजत्वकाल आसीत् १०८८ खिस्ताव्दात् ११०० खिस्ताव्दपर्यन्तम्२। कल्हणस्य राजतरङ्गिणी इत्यनुसारेण एष हर्षदेवः स्वीयजीवनयेव स्वीयोत्थानं पतनञ्च दृष्टवान्। काव्यपाठाज्ज्ञायते यत्- श्रीहर्षस्यार्थाद् हर्षदेवस्योत्थानसमये तथा समृद्धिसमये काव्यमिदं विरचितम्।
कवेः शम्भोः सम्पर्के एतद्व्यतिरिक्तं तथ्यं कालगर्भे निमज्जितम्। स्वीयग्रन्थस्य मध्ये कुत्रापि कविः आत्मपरिचयं न प्रदत्तवान्। अपि च समकालिकानां कवीनां रचनायामपि तस्य सम्पर्के वर्णनं केनापि नोक्तम्। अतः प्रचेष्टया यत् सम्भवं तत् तथ्यग्रहणं क्रियते अत्र।
श्लेषः
श्लेषगुणस्य लक्षणे आचार्येण दण्डिणोक्तम्- ‘श्लिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम्’३
अर्थादुच्चारणकाले यस्मिन् पदविन्यासे अल्पप्राणवर्णानामाधिक्यं वर्तते, परन्तु शिथिलता न विद्यते, सा रचना श्लेषगुणान्विता।
राजेन्द्रकर्णपूरकाव्यस्यानेकांशे श्लेषगुणस्य प्रयोगः परिलक्ष्यते अत्र दृष्टान्तरूपेणोच्यते
१. प्रेमाणं विनिमील्य मल्लिकलिकाकर्णावतंसे रसं१
२. सम्मानाय सतां हिताय महतां तापाय पृथ्वीभृताम् २।
३. चैत्रं मा स्मर विस्मर स्मर रतिं किं सयकैर्मारकै-३
४. विषमेषुविगलितरसाश्चपलतरंगालिभिर्जडैः क्षुभिताः ४।
उपर्युक्तेषु सर्वेषु दृष्टाव्तेषु अल्पप्राणवर्णानां प्राधान्यता अर्थाद् वर्गीय-प्रथम-तृतीय-पञ्चमवर्णानां तथा य-व-र-ल-वर्णानामाधिक्यं स्पष्टरूपेण प्रतीयते। अपि चात्र शैथिल्यं नास्ति। अतो ज्ञायते श्लेषगुणप्रयोगे कविः शम्भुर्निपुण आसीत्।
प्रसादः
प्रसादगुणस्य लक्षणे आचार्येण दण्डिणोक्तं तदीये काव्यादर्शग्रन्थे- ‘प्रसादवत् प्रसिद्धार्थं ...............प्रतीतिसुभगं वचः५’ अर्थात् प्रसिद्धार्थे पदप्रयोगाद् यदा वाक्यार्थः सहजबोध्यो भवति, स प्रसादगुणः।
राजेन्द्रकर्णपूरग्रन्थे प्रसादगुणस्य प्रयोगः प्रायशः परिलक्ष्यते। उदाहरणरूपेणोच्यते-
स ख्यातो जगति त्रिविक्रम इति त्वद्विक्रमा भूरय-
स्तेनैको निहतो बलिबलिशतध्वंसी भुजस्तावकः ।
तं वैकुण्ठमवैति को न जगतीं जेतुं त्वत्कण्ठो भवा-
नस्त्येवं महदन्तरं तव तथा देवस्य दैत्यद्रुहः ॥६६०॥
अत्र त्रिविक्रमो दैत्यद्रुह इत्यादिभिः पदैरर्थात् प्रसिद्धपदप्रयोगेन सारल्येनार्थबोधो भवति। कवेर्वक्तव्यमत्र सरलभाषयाभिव्यक्तम्। अतः श्लोकेऽस्मिन् प्रसादगुणस्य प्रयोगः कविना सुचारुतया कृतः।
समतागुणः
गुणस्यास्य लक्षणे काव्यादर्शे दण्डिणोक्तम्- ‘समं बन्धेष्वविषमम्१’ अर्थाद् यस्या रचनाया आदौ अन्ते च समभावता विराजिता, सा समतागुणयुक्ता रचना।
राजेन्द्रकर्णपूरकाव्यस्य सर्वांशे समतागुणस्य यथायथः प्रयोगः कविना कृतः। यथा-
देवाकर्णय नाकिनां पुरि नृणां लोके पुरे भोगिना-
मासन्केचन सन्ति केचन तथा स्थास्यन्ति ये केचन ।
तन्मध्ये न बधूव नास्ति भविता तादृङ् न नीतौ नतौ
कान्तौ कव्यरतौ मतौ रिपुहतौ कीर्तौ च यस्ते समः ॥२९॥
अस्य श्लोकस्य आदितोऽन्तपर्यन्तं सर्वांशे कर्तृवाच्यस्य क्रियापदानि प्रयुक्तानि, अल्पप्राणवर्णानां समतापि अत्र रक्षिता। कुत्रापि अक्षरगतवैषम्यं न परिलक्षितम्। सर्वांशे सहजबोध्य-शब्दचयनं कविना रक्षितम्। अतोऽत्र समतागुणान्वितोऽयं श्लोकः।
माधुर्यगुणः
गुणस्यास्य लक्षणे काव्यादर्शे दण्डिणोक्तम्- ‘मधुरं रसवद् वाचि वस्तुन्यपि रसस्थितिः३’ अर्थाद् यस्मिन् वाक्ये वस्तुनि च रसस्य स्थितिः परिलक्ष्यते, तदा तद् रसयुक्तं वाक्यं माधुर्यगुणान्वितं भवति।
राजेन्द्रकर्णपूरकाव्ये कविः शम्भुः सहृदयाणां मनसि रसपरिवेशने सिद्धहस्तः। विशेषतः शृङ्गारवीरख्यरसद्वयस्य प्राधान्यता परिलक्ष्यते। अतः काव्ये माधुर्यगुणस्य प्रयोगबाहुल्यं स्पष्टतयैव परिलक्ष्यते। दृष्टान्तरूपेणोच्यते-
औदार्यं सधने नयो गुणिजने लज्जा कुलस्त्रीजने
सत्काव्यं वदने मदो द्विरदने पुंस्कोकिलः कानने ।
रोलम्बः कमले नखाङ्करचना कान्ताकपोलस्थले
तन्वी तल्पतले भवानपि विभो भूमण्डले मण्डनम् ॥१५४ ॥
श्लोकेऽस्मिन् यथा शृङ्गाररसः परिस्फुटितः तथैव श्लोकश्रवणेन सहृदयाणां चित्तमाप्लुतं भवति। अतः श्लोकेऽस्मिन् माधुर्यगुणस्य प्रयोगः कविना शम्भुना कृतः।
सुकुमारगुणः
गुणस्यास्य लक्षणे आचार्येण दण्डिणोक्तं तदीये काव्यादर्शे-
अनिष्ठुराक्षरप्रायं सुकमारमिहेष्यते।
बन्धशैथिल्यदोषस्तु दर्शितः सर्वकोमले॥२
अर्थाद् वाक्यं यदा पायशः कोमलपदयुक्तं भवति तदा सौकुमार्यगुणः। सर्वकोमले तु दोषो भवति।
राजेन्द्रकर्णपूरकाव्ये कविना शम्भुना प्रयुक्तानां सुकुमारगुणयुक्तानां श्लोकानां मध्येऽन्यतमो भवति-
अस्तं याति ययातिधाम विगतं दुष्यन्तवार्ताशतैः
शान्तं शन्तनुकीर्तिभिर्लघु रघोलोकेषु जातं यशः ।
किं चान्यत्त्वयि मेदिनीकुमुदिनीराकाशशाङ्कोदये
जाते हन्त तथा कथा अपि विभो रामे विरामं गता ॥३३१॥
श्लोकोऽयं कोमलपदैः प्रायशः विरचितः। ‘चान्यत्त्वयि’ इत्यादिपदप्रयोगेन दोषोऽपि दूरीभूतः। अतः श्लोकोऽयं सुकुमारगुणयुक्तः।
अर्थव्यक्तिगुणः
गुणस्यास्य लक्षणे काव्यादर्शे दण्डिणोक्तम्- ‘अर्थव्यक्तिरनेयत्वमर्थस्य हरिणोद्धृता’१ अर्थाद् यदा वाक्यस्य विवक्षितार्थस्य ज्ञानार्थं प्रयत्नस्य प्रयोजनीयता न विद्यते, तदार्थव्यक्तिगुणो भवति।
राजेन्द्रकर्णपूरः इति काव्ये इदृशो गुणयुक्तः श्लोकः प्रायशः परिलक्ष्यते। काव्येऽस्मिन् कष्टकल्पना नास्ति। कविना सरलभाषया समग्रस्य वर्णना कृता। यथा दृष्टान्तरूपेणोच्यते-
त्वय्युत्पन्ने गुणवति सतां नाभिरामः स राम-
स्त्यागव्यग्रे भवति भवति म्लानवर्णः स कर्णः ।
ब्रुमः किं वा बहु ननु धनुर्वेदविद्याविदस्ते
संग्रामोर्वीपुरहर पुरः स्यादपार्थः स पार्थः ॥२२८॥
श्लोकस्यास्यार्थः सुष्पष्टरूपेणैवागच्छति सहृदयाणानां समीपे। अत्र कष्टकल्पना नास्ति, अनायासेनैव वाक्यस्य विवक्षितार्थः पाठकानां समीपे आगच्छति। अतः श्लोकोऽयं अर्थव्यक्तिगुणान्वितः।
उदारगुणः
उदारगुणस्य लक्षणे दण्डिणोक्तं तदीये काव्यादर्शग्रन्थे-
उत्कर्षवान् गुणः कश्चिद् यस्मिन्नुक्ते प्रतीयते।
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः॥३
अर्थाद् यत्र एकोऽतिरिक्त उत्कृष्टगुणः प्रतीयते। येन गुणेन चोत्कर्षता भवति, स उदारता।
राजेन्द्रकर्णपूरकाव्ये कविना उदारगुणस्य प्रयोगनैपुण्यं चातुर्यतया प्रदर्शितम्। दृष्टान्तरूपेणोच्यते-
अव्यात्स वस्ताण्डवविभ्रमेण
मौलौ विलीना हरिणाङ्कलेखा ।
सा यस्या वामे कुचमण्डलाग्रे
कपूरपत्राङ्कुरटङ्कमेति ॥१२॥
अत्र यद्यपि वाच्यार्थेन हरपार्वत्योः युगलमूर्तेः वन्दना नास्ति तथापि ‘यस्य वामे कुचमण्डलाग्रे’ इति वाक्यांशेन युगलमूर्तेर्वर्णना प्रकाशिता। अनेन प्रकारेणात्रातिरिक्ता उत्कर्षता कविना क्षेपिता। अतः श्लोकोऽयमुदारगुणयुक्तः।
ओजोगुणः
ओजोगुणस्य लक्षणे आचार्येण दण्डिणोक्तं तदीये काव्यादर्शग्रन्थे-
‘ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम्’२
अर्थात् समासबहुलो गुणो भवति ओजः। एष गद्यस्य जीवनम्।
राजेन्द्रकर्णपूरकाव्यस्य अधिकांशेषु श्लोकेषु ओजोगुणस्य वर्णना परिलक्ष्यते। तेषां मध्ये तृतीये, एकविंशतितमे, चतुर्विशतितमे, द्वात्रिंशत्तमे, षट्चत्वारिंशत्तमे, षट्पञ्चाशत्तमे, त्रिषष्ठीतमे, एकसप्ततितमे, त्रिसप्ततितमे इत्यादिषु श्लोकेषु ओजोगुणस्य प्रयोगनैपुण्यं विशेषरूपेण परिलक्ष्यते। अत्र दृष्टान्तरूपेण श्लोक एक उल्लेखयोग्यः। तद्यथा-
लोलन्मौक्तिकवल्लि वेल्लदलकं वाचालकाञ्चिगुणं
चञ्चत्काञ्चनकङ्कणं च गिरिजा जातोत्सवा नृत्यतु ।
त्वत्कीर्तिश्रवणोन्मुखेन विलसत्कल्लोलकोलहला
यन्मुक्ता मुकुटान्मृगाङ्कशकलोत्तंसेन मन्दाकिनी ॥३३२॥
श्लोकेऽस्मिन् समासबद्धपदानां प्रयोगबाहुल्यं स्पष्टत एव परिलक्ष्यते। अतो गाढबन्धनत्वादत्र ओजोगुणः।
कान्तिगुणः
कान्तिगुणस्य लक्षणे आचार्येण दण्डिणोक्तम्-
कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रम्यात्।
तच्च वार्ताभिधानेषु वर्णनास्वपि दृश्यते॥१
अर्थात् कान्तिगुणो जगति सर्वेषां मनोज्ञः। एषः प्रसिद्धार्थं नातिक्रामति। एष इतिहासादिग्रन्थस्य वर्णनासु परिलक्ष्यते।
राजेन्द्रकर्णपूरकाव्ये कान्तिगुणस्य प्रयोगोऽपि परिलक्ष्यते। दृष्टान्तरूपेणोच्यते-
रुपं यन्मदने द्युतिः शशिनि या गम्भीरता याम्बुधौ
यो मेरौ गरिमास्ति या कमलिनीकान्ते प्रतापोन्नतिः ।
यो लक्षीरमणेऽपि विक्रमगुणस्तत्सर्वमेकत्र चे-
द्द्रष्टुं वाञ्छसि दृश्यतामयमये देवस्त्रिलोकिमणिः ॥२५९॥
अत्र वीररसस्य औज्ज्वल्यं स्पष्टत एव परिलक्ष्यते। वर्णनमत्र प्रसिद्धार्थं नातिक्रामति। वर्णनमिदं सर्वेषां रसिकजनानां मनोज्ञरूपेणोपस्थापितम्। अतोऽयं कान्तिगुणस्य उत्कृष्टदृष्टान्तः।
समाधिगुणः
समाधिगुणस्य लक्षणे आचार्येण दण्डिणोक्तं तदीये काव्यादर्शे-
अन्यधर्मस्ततोऽन्यत्र लोकसामानुरोधिना।
सम्यगाधीयते यत्र स समाधिः स्मृतो यथा॥३
अर्थाद् यत्र प्रसिद्धार्थं नातिक्रम्यावर्णनीयस्याप्रस्तुतस्य धर्मो वर्णनीयप्रस्तुतस्य धर्म आरोपो भवति, तत्र समाधिगुणः
राजेन्द्रकर्णपूरकाव्ये समाधिगुणस्य प्रयोगः कविना नैपुण्येण दर्शितः। दृष्टान्तरूपेणोच्यते-
कण्ठान्तः क्वणितं दिवाकरकरक्लान्त्या रजोविप्लवै-
स्तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः ।
श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामभ्रुवा-
मेवं देव मरोस्तटेऽपि सुरतक्रीडानुरुपः क्रमः ॥१५६॥
श्लोकस्यार्थः- सूर्यस्यकिरणैरुत्पन्नः कण्ठादेशस्थोऽव्यक्तः शब्दः, धुलिकणादीनामुपद्रवाद् निवारणार्थं वस्त्रेण नेत्रावरणं, कुशाघातेन क्षतकारणादुपन्नो मुखात् सी-सी-शब्दो, वन्यप्राणिभयादुत्पन्नो दीर्घश्वासतरङ्गः; हे महाराज! भवतः शत्रुनारीणां सम्भोगलीलोचितकार्यक्रमो मरुस्थलसीमान्तेऽपि चलति।
अत्र प्रस्तुतस्य धर्मेऽप्रस्तुतरूपवर्णनीयस्यारोपः परिलक्ष्यते। अव्यक्तः शब्दो, नेत्रावरणं, सी-सी-शब्दः, दीर्घाश्वास इत्यादयोऽप्रस्तुतस्यार्थात् सम्भोगलीलाया धर्माः। एते सर्वे धर्माः प्रस्तुतेऽर्थाद् ग्रीष्मस्य प्रान्तरे द्रुतगमने आरोपिता भूताः। अतोऽत्र समाधिगुणः प्रयुक्तः।
इयमेव राजेन्द्रकर्णपूरकाव्यस्य संक्षिप्ता गुणसमीक्षा। समग्रस्य काव्यस्य समीक्षणादनन्तरं उपसंहारे उच्यते कवेः काव्यनैपुण्यमतीव सुन्दरम्। गुणप्रयोगे तस्य चातुर्यता अतुलनीया। अपि च स आसीत् सिद्धहस्तः गुणप्रयोगे।
ग्रन्थसूची
· अशोकनाथशास्त्रिकृतः ‘ रस ओ भाव’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९९८ तमे खिस्ताव्दे प्रकाशितः।
· आनन्दवर्धनकृतः ‘ध्वन्यालोक(प्रथमोद्योत)’ इत्याख्यः ग्रन्थः सत्यनारायण-चक्रवर्तिसम्पादितः ‘संकृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९९८ तमे खिस्ताव्दे प्रकाशितः।
· ‘उपनिषद्ग्रथेवली’ इत्याख्यः ग्रन्थः स्वामिगम्भीरानन्दसम्पादितः ‘ उद्वोधन कार्यालय’ इत्याख्यसंस्थानतः कालिकातायां १९६२ तमे खिस्ताव्दे प्रकाशितः। सप्तमसंस्करणम्।
· ऋग्वेदः रामगोविन्दत्रिवेदीसम्पादितः ‘चौखाम्वा विद्याभवन’ इत्याख्यसंस्थानतः वाराणस्यां २०११ तमे खिस्ताव्दे प्रकाशितः।
· कलहणकृतः ‘राजतरङ्गिणी ’ इत्याख्यः ग्रन्थः पञ्चानन-तर्करत्नेन सम्पादितः ‘कलिकाता विश्वविद्यालयः ’ इत्याख्यसंस्थानतः कलिकातायां १३१७ तमे खिस्ताव्दे प्रकाशितः।
· कालिदासकृतः ‘अभिज्ञानशकुन्तलम्’ इत्याख्यः ग्रन्थः सत्यनारायण-चक्रवर्तिमहोदयेन सम्पादितः ‘ संकृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां २०१० तमे खिस्ताव्दे प्रकाशितः। सप्तमसंस्करणम्।
· ‘काव्यमाला’ इति संकलनग्रन्थः दुर्गाप्रसादमहोदयेन काशीनाथमहोदयेन च सम्पादितः ‘ निर्णय-गागर-प्रेस’ इत्याख्यसंस्थानतः बोम्बाई इति नगरे १९३२ तमे खिस्ताव्दे प्रकाशितः।
· गङ्गादासकृतः ‘छन्दोमञ्जरी’ इत्याख्यः ग्रन्थः श्रीरामपद-भट्टाचार्येण सम्पादितः ‘संकृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९९४तमे खिस्ताव्दे प्रकाशितः।
· जगदीशचन्द्रमिश्रकृतः ‘अलंकारशास्त्रस्येतिहासः’ इत्याख्यः ग्रन्थः ‘चौखाम्बा-सुरभारती-प्रकाशन’ इत्याख्यसंस्थानतः वाराणस्यां २००९ तमे खिस्ताव्दे प्रकाशितः।
· जयश्री-चट्टोपाध्यायकृतः ‘ अलंकारशास्त्रेर समृद्ध इतिहास’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां २००६तमे खिस्ताव्दे प्रकाशितः।
· दण्डिकृतः ‘काव्यादर्शः ’ इत्याख्यः ग्रन्थः अनिल-वसुना सम्पादितः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां २००२ तमे खिस्ताव्दे प्रकाशितः।
· द्विजेन्द्रनाथशास्त्रिकृतः ‘संस्कृतसाहित्यविमर्शः’ इत्याख्यः ग्रन्थः ‘भारतीप्रतिष्ठान’ इत्याख्यसंस्थानतः महाराष्ट्रनगरे १९५६ तमे खिस्ताव्दे प्रकाशितः।
· धीरेन्द्रनाथबन्धोपाध्यायकृतः ‘संस्कृतसाहित्येर इतिहास’ इत्याख्यः ग्रन्थः ‘पश्चिमवङ्ग राज्य पुस्तक पर्षद्’ इत्याख्यसंस्थानतः कलिकातायां २००० तमे खिस्ताव्दे प्रकाशितः। द्वितीयसंस्करणम्।
· धीरेन्द्रनाथबन्धोपाध्यायकृतः ‘संस्कृत अलंकारशास्त्र तत्त्व ओ समीक्षा’ इत्याख्यः ग्रन्थः ‘पश्चिमवङ्ग राज्य पुस्तक पर्षद्’ इत्याख्यसंस्थानतः कलिकातायां २०१२ तमे खिस्ताव्दे प्रकाशितः।
· भरतमुनिकृतः ‘ नाट्यशास्त्रम्’ इत्याख्यः ग्रन्थः पुष्पेन्द्र-कुमारमहोदयेन सम्पादितः ‘निउ-भारतीय-वुक्-कर्परेशन्’ इत्याख्यसंस्थानतः दिल्ली इति नगर्यां २०१०तमे खिस्ताव्दे प्रकाशितः।
· भामहकृतः ‘काव्यालंकारः’ इत्याख्यः ग्रन्थः वटुनाथ-शर्मणा बलदेव-उपाध्यायेन च सम्पादितः ‘चौखम्बा विद्याभवन’ इत्याख्यसंस्थानतः वाराणस्यां १९८५ तमे खिस्ताव्दे प्रकाशितः।
· भोजकृतः ‘ सरस्वतीकण्ठाभरणम्’ इत्याख्यः ग्रन्थः केदारनाथेन दुर्गाप्रसादेन च सम्पादितः ‘ निर्णय-सागर-प्रेस’ इत्याख्यसंस्थानतः मुम्बाई इति स्थाने १८९४ तमे खिस्ताव्दे प्रकाशितः।
· मम्मटाचार्यकृतः ‘काव्यप्रकाशः’ इत्याख्यः ग्रन्थः रामसागर-त्रिपाठीमहोदयेन सम्पादितः ‘मोतीलाल-बनारसीदासः’ इत्याख्यसंस्थानतः वाराणस्यां १६८३ तमे खिस्ताव्दे प्रकाशितः।
· मम्मटाचार्यकृतः ‘काव्यप्रकाश(नवम ओ दशम)’ इत्याख्यः ग्रन्थः विजया-गोस्वामिसम्पादितः ‘सदेश’ इत्याख्यसंस्थानतः कलिकातायां २००६ तमे खिस्ताव्दे प्रकाशितः।
· मंखकृतः ‘ शीकण्ठचरितम्’ इत्याख्यः ग्रन्थः ‘काव्यमाला’ इति संकलने अन्तर्भूक्तः दुर्गाप्रसादमहोदयेन काशीनाथमहोदयेन च सम्पादितः ‘निर्णय-सागर-प्रेस’ इत्याख्यसंस्थानतः मुम्बाई इति नगरे १९३२ तमे खिस्ताव्दे प्रकाशितः।
· महाकविशम्भुकृतः ‘राजेन्द्रकर्णपूरः’ इत्याख्यः ग्रन्थः ड. देवकुमारीसम्पादितः ‘भारतीय-विद्या-प्रकाशन’ इत्याख्यसंस्थानतः वाराणस्यां १९७३ तमे खिस्ताव्दे प्रकाशितः।
· रमारञ्जन-मुख्योपाध्यायकृतः ‘रससमीक्षा’ इत्याख्यः ग्रन्थः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९६१तमे खिस्ताव्दे प्रकाशितः।
· वामनकृतः ‘काव्यालंकारसूत्रवृत्तिः’ इत्याख्यः ग्रन्थः अनिल-चन्द्र-वसुना सम्पादितः ‘संस्कृत-पुस्तक-भाण्डार’ इत्याख्यसंस्थानतः कलिकातायां १९७७ तमे खिस्ताव्दे प्रकाशितः।
· विद्यानाथकृतः ‘प्रतापरुद्रीयम् ’ इत्याख्यः ग्रन्थः के. पि. त्रिवेदी महोदयेन सम्पादितः बोम्बाई इत्याख्यस्थानतः १९०९ तमे खिस्ताव्दे प्रकाशितः।
· विष्णुपद-भट्टाचार्यकृतः ‘प्राचीनभारतीय अलंकारशास्त्रेर भूमिका’ इत्याख्यः ग्रन्थः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९५३ तमे खिस्ताव्दे प्रकाशितः।
· विष्णुपद-भट्टाचार्यकृतः ‘काव्यमीमांसा’ इत्याख्यः ग्रन्थः ‘संस्कृत-वुक्-डिपो’ इत्याख्यसंस्थानतः कलिकातायां १९८२ तमे खिस्ताव्दे प्रकाशितः।
· विष्णुपद-भट्टाचार्यकृतः ‘साहित्यमीमांसा’ इत्याख्यः ग्रन्थः ‘विश्वभारती-ग्रन्थन-विभाग’ इत्याख्यसंस्थानतः कलिकातायां १९८२ तमे खिस्ताव्दे प्रकाशितः।
· विश्वनाथकृतः ‘साहित्यदर्पणः’ इत्याख्यः ग्रन्थः ड. सत्यव्रतसिंहेन सम्पादितः ‘चौखम्वा विद्याभवन’ इत्याख्यसंस्थानतः वाराणस्यां १९५८ तमे खिस्ताव्दे प्रकाशितः।
· विलहणकृतः ‘विक्रमाङ्कदेवचरितम’ इत्याख्यः ग्रन्थः जि. बुलारमहोदयेन सम्पादितः ‘ वि.एस. एस.’ इत्याख्यसंस्थानतः बोम्बाई इति नगर्यां १८७५तमे खिस्ताव्दे प्रकाशितः।
· ‘विष्णुधर्मोत्तरपुराणम्’इति ग्रन्थः प्रियबाला-साहा इत्येन सम्पादितः ‘इ. मर्लवोरुख ’ इत्याख्यसंस्थानतः लण्डन इति स्थाने २००३ तमे खिस्ताव्दे प्रकाशितः।
· श्यामापद-चक्रवर्तिकृतः ‘अलंकारचन्द्रिका’ इत्याख्यः ग्रन्थः सम्पादितः ‘वामा पुस्तकालय’ इत्याख्यसंस्थानतः कलिकातायां २००६तमे खिस्ताव्दे प्रकाशितः।
· हेमचन्द्रकृतः ‘काव्यानुशासनम् ’ इत्याख्यः ग्रन्थः रसिकलाल-सि.-पारिख-सम्पादितः ‘मुम्बाई ’ इत्याख्यसंस्थानतः १९३८ तमे खिस्ताव्दे प्रकाशितः।
लेखकः - ड: पियूष-कान्ति-पालः
१ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-४२। पृष्ठासंख्या-१२६।
२ काव्यप्रकाशः। उल्लासः-८। कारिकासंख्या-६६। पृष्ठासंख्या-२५८।
३ साहित्यदर्पणः। परिच्छेदः-८। कारिकासंख्या-१। पृष्ठासंख्या-६४२।
४ काव्यलंकारसूत्रवृत्तिः। अधिकरणम्-३। अध्यायः-१।सूत्रम्-१। पृष्ठासंख्या-१११।
१ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-४२। पृष्ठासंख्या-१२४।
२ श्रीकण्ठचरितम्। सर्गः- २५। श्लोकसंख्या-६७। पृष्ठाङ्कः-२५६।
१ ‘संस्कृतसाहित्येर इतिहास’ इति ग्रन्थः। पृष्ठा-४३५।
२ संस्कृतसाहित्येर इतिहास इति ग्रन्थः। पृष्ठाङ्कः-४४५।
३ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-४३। पृष्ठासंख्या-१२९।
१ राजेन्द्रकर्णपूरः।श्लोकसंख्या-३। पृष्ठासंख्या-१९।
२ राजेन्द्रकर्णपूरः।श्लोकसंख्या-७। पृष्ठासंख्या-२२।
३ राजेन्द्रकर्णपूरः।श्लोकसंख्या-११। पृष्ठासंख्या-२५।
४ राजेन्द्रकर्णपूरः।श्लोकसंख्या-१५। पृष्ठासंख्या-२९।
५ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-४। पृष्ठासंख्या-१३१।
६ राजेन्द्रकर्णपूरः। श्लोकसंख्या-६०। पृष्ठासंख्या-६८।
१ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-४७। पृष्ठासंख्या-१३९।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-९। पृष्ठासंख्या-२४।
३ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-५१। पृष्ठासंख्या-१४८।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-५४। पृष्ठासंख्या-६२।
२ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-६९। पृष्ठासंख्या-१७७।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-३१। पृष्ठासंख्या-४४।
१ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-७३। पृष्ठासंख्या-१८४।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-२८। पृष्ठासंख्या-४१।
३ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-७६। पृष्ठासंख्या-१८८।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-२। पृष्ठासंख्या-१८।
२ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-८०। पृष्ठासंख्या-१९८।
३ राजेन्द्रकर्णपूरः। श्लोकसंख्या-३२। पृष्ठासंख्या-४४।
१ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-८५। पृष्ठासंख्या-२०७।
२ राजेन्द्रकर्णपूरः। श्लोकसंख्या-५९। पृष्ठासंख्या-६७।
३ काव्यादर्शः। परिच्छेदः-१। कारिकासंख्या-९३। पृष्ठासंख्या-२१८।
१ राजेन्द्रकर्णपूरः। श्लोकसंख्या-५६। पृष्ठासंख्या-६४।